प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 231, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २११ श्रद्धा—आदिष्टाहं स्वामिना यथा विवेकं द्रष्टुमिच्छामि । शान्तिः—तत्त्वरतां भगवतीति । श्रद्धा—तदहं राजसन्निधिं प्रस्थिता । शान्तिः—अहमपि महाराजेनोपनिषदमानेतुमादिष्टा । तद्भवतु स्वनियोगं संपाद्यावः । ( इति निष्क्रान्ते ) प्रवेशकः । ( ततः प्रविशति पुरुषः ) पुरुषः—( विचिन्त्य । सहर्षम् ) अहो माहात्म्यं देव्या विष्णुभक्तेः । यत्प्रसादान्मया, तीर्णाः क्लेशमहॉर्मयः परिहृता भीमा ममत्वभ्रमाः शान्ता मित्रकलत्रबन्धुमकरग्राहग्रहग्रन्थयः । त्वरताम्-शीघ्रतां करोतु । राजसन्निधिम्-विवेकपार्श्वम् । स्वनियोगम्-आत्मनः कर्त्तव्यम् । त्वं विवेकस्य पार्श्वं याहि, अहं चोपनिष- दन्तिकं व्रजाम्येवमावां निजं निजं कृत्यं प्रति सयत्ने भवाव इत्याशयः । माहात्म्यम्-प्रभावातिशयः । यत्प्रसादात्-यदीयानुग्रहात् । मया-पुरुषेण । तीर्णा इति० क्लेशमहॉर्मयः अविद्यास्मितादिक्लेशतरङ्गाः तीर्णाः उत्तीर्णाः, भीमाः बन्धनसाधनतया भीषणा ममत्वभ्रमाः ममतारूपा आवर्त्ताः परिहृताः लङ्घिताः, श्रद्धा—स्वामीसे आज्ञा पाकर मैं विवेक से मिलना चाहती हूँ । शान्ति—तब तुम शीघ्रता करो। श्रद्धा—तो अब मैं राजा के पास चलती हूँ । शान्ति—मुझे भी महाराजने उपनिषद्को बुला लानेको आज्ञा दी है । तो हम दोनों ही अपना अपना कर्त्तव्य करें । ( दोनों जाती है ) प्रवेशक । ( पुरुषका प्रवेश ) पुरुष—( सोचकर, सहर्ष ) देवी विष्णुभक्तिका माहात्म्य धन्य है । जिसके प्रसादसे हमने— क्लेशतरङ्गोंको पार किया, भयानक ममत्वभ्रमको दूर छोड़ा, मित्र कलत्र बन्धुरूप