प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 234, कुल 274 में से
संदर्भ में पढ़ें२१४ प्रबोधचन्द्रोदयम् एतदेव कुलस्त्रीणां नैसर्गिकं शीलं यद्विपन्मग्नस्य स्वामिनः समयप्रती- क्षणमिति । तदेहि दर्शनप्रियालापेन संभावय देवम् । संप्रत्यपहता विद्विषः । संपूर्णास्ते मनोरथाः । उपनिषत्—सखि, संप्रत्यागच्छन्ती वत्सया गीतयाऽहं रहस्युक्ता यथा भर्ता स्वामी च पुरुषस्त्वया यथाप्रश्नमुत्तरेण संभावयितव्यः । तथा प्रबोधोत्पत्तिर्भविष्यतीति तत्कथं गुरूणामध्यक्षं धार्ष्ट्यमवलम्बिष्ये । शान्तिः—देवि, अविचारणीयमेतद्वाक्यं भगवत्या गीतायाः, अयमेव चार्थो भगवत्या विष्णुभक्त्या विवेकस्वामिनो निरुक्तः । तदेहि । संभा- वय दर्शनेन भर्तारमादिपुरुषं च । शीलम्-चारित्रम् । विपन्मग्नस्य-आपत्तिपतितस्य । समयप्रतीक्षणम्-सुखसमयसमा- गमप्रतीक्षा । दर्शनप्रियालापेन-साक्षात्पूर्वकसरसकथाप्रस्तावेन । सम्भावय-आद्रि- यस्व । अपहताः नष्टाः । विद्विषः-कामादयोऽरयः । वत्सया, पुत्रिकया गीताया उप- निषत्पुत्रकाभावस्तस्याः सर्वोपनिषदुत्थतयोक्तः । उक्तोऽयमर्थः प्रकारान्तरेणान्यत्र यथा-‘सर्वोपनिषदो गावो ऽ दुग्धं गीतामृतं महत्' इति । रहसि-एकान्ते । भर्त्ता-वि- वेकः। स्वामी पुरुषः-आत्मा । यथाप्रश्नमुत्तरेण सम्भावयितव्यः-प्रश्नमनतिक्रम्योत्तरं दातव्यं, न तु प्रश्नविरुद्धमित्यर्थः । तथा-यथाप्रश्नोत्तरप्रदानेन । प्रबोधोत्पत्तिः-ज्ञान- जन्म । गुरूणामध्यक्षम्-श्वशुरस्थानीयपुरुषपुरतः । धार्ष्ट्यम्-निर्लज्जभावम् । अय- मस्याशयः—काचन स्नुषा सलज्जा गुरुजनपार्श्वे न किमपि प्रकटं मन्त्रयति किन्त्व- न्यं जनं द्वारीकृत्य मनोगतमभिदधाति, तद्वदुपनिषदपि शब्दत्वेनापरोक्षमेव ज्ञानं जनयितुं प्रभवति, जननीयं चात्र प्रत्यक्षात्मकं ज्ञानमिति प्रत्यक्षम्भिधाने तारतम्यं साहित्यिकभाषयोपनिबद्धम् । अविचारणीयम्-अनालोचनीयम् , तदुक्तमविचार्य चरितार्थनीयमित्यर्थः । निरुक्तः-निरवशेषमभिहितः । ललनाओंका यही तो स्वाभाविक चरित्र होता है कि वह विपत्तिमे फंसे स्वामीके सुखसमयकी प्रतीक्षा करती हैं । अतः चलो, दर्शन तथा प्रियसंभाषणसे देवको प्रसन्न करो । शत्रु निश्शेष हो गये, तुम्हारे मनोरथ पूर्ण हुए । उपनिषत्—आनेके समय वत्सा गीताने मुझे बताया कि स्वामी, पुरुषको तुम प्रश्नानुसार उत्तर देना, वैसा करनेसे प्रबोधकी उत्पत्ति होगी, तब बड़े बूढोंके सामने धृष्टता कैसे करूंगी ? शान्ति—गीताकी इस बातपर विचार नही करना चाहिये, यही बात भगवती विष्ण् भक्तिने भी विवेक स्वामीसे कही है । अतः आओ, स्वामी और आदिपुरुषके सामने आओ