प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 236, कुल 274 में से
संदर्भ में पढ़ें२१६ प्रबोधचन्द्रोदयम् राजा—( उपसृत्य ) स्वामिन्, अभिवादये । पुरुषः—वत्स, प्रक्रमविरुद्धोऽयं समुदाचारः । यतो ज्ञानवृद्धतया भवानेवास्माकमुपदेशदानेन पितृभावमापन्नः । कुतः— पुरा हि धर्माध्वनि नष्टसंज्ञा देवास्तमर्थं तनयानपृच्छन् । ज्ञानेन सम्यक्परिगृह्य चैतान् हे पुत्रका संशृणुतेत्यवोचन् ॥ १० ॥ तद्भवान्पितृत्वेनास्मासु वर्ततामित्येष एव धर्मः । परसमवेतभयविषये परकर्तृकाभिधानापेक्षया । भयाश्रयजनवचनमेक प्रमाणवत्तर- मिति तयैवेह वक्तव्यमित्याशयः । विविक्ते-रहसि । प्रक्रमविरुद्धः-न्यायविपरीत:, भवता मदीयमभिवादनं क्रियते, नेदं न्यायसिद्ध- मित्यर्थः । ज्ञानवृद्धतया-समधिकज्ञानवत्तया । भवान्-विवेकः । उपदेशदानेन- स्वरूपज्ञानसम्पादकोपदेशप्रदानेन । पितृभावमापन्नः-पितृत्वं गतः । पुरेति० पुरा पूर्वकाले, धर्माध्वनि धर्ममार्गे नष्टसज्ञाः लुप्तचेतनाः देवाः तम् अर्थम् धर्मरूपम् तनयान् स्वान्पुत्रान् अपृच्छन् जिज्ञासितवन्तः । ते च पुत्राः एतान् प्रश्नकर्तॄन् । देवान् ज्ञानेन हेतुना परिगृह्य साधु पृष्टमिति स्वीकृत्य हे पुत्रकाः संशृणुत अवधानेनाकर्णयत इत्यवोचन् उक्तवन्तः । 'पुरा प्रजापतिः देवान् दृष्ट्वा केनचित्कारणेनाज्ञानिनो भूयांसुरिति शशाप, तदनन्तरं ताननुगृह्णन् अन्योन्यं पितृत्वं पुत्रत्वं च ददौ' इति कथात्रानुसन्धेया । उक्तञ्चैतत्प्रतिमं वृत्तान्तरं मनुना— 'अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ ते तमर्थमपृच्छन्त देवानागतमन्यवः । देवाश्चैतान् समेत्योचुर्न्याय्यं वः शिशु- रुक्तवान् ॥ अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम्' इति ॥ इति ॥ तत्-उपदेशप्रदत्वात् । भवान्-विवेकः । पितृत्वेन-पितृचितेनाचारेण । वर्त्तताम्- राजा—( समीप आकर ) स्वामिन्, प्रणाम करता हूँ । पुरुष—वत्स, यह आचार प्रक्रम विरुद्ध है क्योंकि ज्ञानवृद्धतया उपदेश प्रदान करनेसे आप ही हमारे पिता तुल्य हैं—क्योंकि— पुराने जमानेमें धर्ममार्गमें भटकने हुए देवोंने पुत्रोंसे उसके विषयमें प्रश्न किये, उन पुत्रोंने उन्हें ज्ञानसे ग्रहण करके पुत्र शब्दसे व्यवहार कर उपदेश सुननेको कहा ॥१०॥ अतः आप पितृरूपसे हमपर बरतें, यही धर्म है ।