प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 238, कुल 274 में से
संदर्भ में पढ़ें२१८ प्रबोधचन्द्रोदयम् उपनिषत्—स्वामिन्, नीतान्यमूनि मठचत्वरशून्यदेवा- गारेषु मूर्खमुखरैः सह वासराणि । पुरुषः—अथ ते जानन्ति किमपि भवत्यास्तत्त्वम् । उपनिषत्—न खलु । किन्तु ते स्वेच्छया मम गिरां द्रविडाङ्गनोक्त- वाचामिवार्थमविचार्य विकल्पयन्ति ॥ १२ ॥ तेन केवलं तेषां परार्थग्रहणप्रयोजनमेव मद्विचारणम् । पुरुषः—ततस्ततः । नीतानीति० अमूनि प्रवासकालिकानि वासराणि दिनानि मठचत्वरशून्यदेवा- गारेषु मन्दिरजनसामान्यवासस्थलरिक्तदेवायतनेषु मूर्खमुखरैः निरक्षरवाचालैः सह नीतानि गमितानि । तत्त्वम्-रहस्यम् । ते स्वेच्छयेति० ते मूर्खमुखराः स्वेच्छया यदृच्छया मम गिराम् मदुक्तीनाम् । द्रविडाङ्गनोक्तवाचाम् इव द्रविडदेशवासिललनाजनवचनानाम् इव अर्थम् अविचार्य विना विचारं विकल्पयन्ति, इदमत्र तात्पर्यमिदं वेति सन्दिहते । यथा कश्चिदुत्तरा- खण्डवासी दाक्षिणात्यललनावचांसि श्रुत्वा तदर्थानभिज्ञतया इयमिदमभिप्रैति, इदं वाऽभिप्रैति' इति विकल्पयति तद्वदिमेऽपि मूर्खमुखराः पामरा ममोक्तिषु नाना- विकल्पनारचयन्तीत्याशयः । द्रविडस्त्रियः पुरुषापेक्षयाऽस्पष्टवाचो भवन्तीति ता एव दृष्टान्तिताः ॥ १२ ॥ तेषाम्-मूर्खमुखराणाम् । परार्थग्रहणप्रयोजनम्-परकीयधनापहरणार्थम् । मद्वि- चारणम्-मदर्थभावनम् । ते हि बहिर्मुखाः केवलं पाण्डित्यख्यापनेन परकीयधनाहर- उपनिषत्—स्वामिन्, ये दिन हमने मठ, चत्वर तथा शून्य देवालयोंमें मुखर मूर्खों के साथ बिताये । पुरुष—क्या वह आपके तत्त्वकी कुछ जानकारी रखते हैं । उपनिषत्—नहीं, किन्तु—वे स्वेच्छासे मेरी उक्तियोंका अर्थ करते हैं जैसे लोग द्रविडाङ्गनाओंकी उक्तिका अर्थ नहीं समझकर कुछ कल्पना कर लेते हैं ॥ १२ ॥ वे केवल परकीय अर्थ जाननेके लिये ही मेरे सम्बन्धमे विचार करते हैं । पुरुष—तब ?