प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 243, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २२३ स्वभावलीनानि तमोमयानि प्रकाशयेद्यो भुवनानि सप्त । तमेव विद्वानतिमृत्युमेति नान्योऽस्ति पन्था भवमुक्तिहेतुः ॥ १७ ॥ पुरुषः—ततस्ततः । उपनिषत्—ततो यज्ञविद्यया विमृश्योक्तम् । सखि, त्वत्संनिकर्षात् दुर्वासनोपहतैरस्मदन्तेवासिभिः कर्मसु श्लथादरैर्भवितव्यम् । तत्प्रसीदतु भवती स्वाभिलषितदेशगमनाय । पुरुषः—ततस्ततः । क्रियाया अपि अज्ञानप्रभवजगन्नाशकत्वानुपपत्तेः । तस्मादुपनिषदुक्तं ज्ञाननाश्य- त्वमेव जगतो नान्यनाश्यत्वं ज्ञानस्यैवाज्ञाननिवर्त्तकत्वौचित्यादिति भावः । स्वभावलीनानीति० स्वभावेन लीनानि नश्वराणि जडस्वभावानि वा तमोमयानि अज्ञानस्वरूपाणि सप्तभुवनानि भूर्भुवरादिलोकान् यः प्रकाशयेत् स्वरूपप्रकाशेन चैतन्यभाजनानि कुर्यात् 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति श्रुत्यर्थानुवादोऽयम् । तमेव स्वप्रकाशं परात्मानं विद्वान् जानन् अतिमृत्युम् मृत्योः परं परं ब्रह्म एति, भुवि संसारे अन्यः पन्थाः मुक्तिहेतुर्नास्ति ब्रह्मात्मताज्ञाना- दन्यो मोक्षस्य मार्गो नास्तीत्यर्थः । तथा च श्रूयते-तमेव विद्वानतिमृत्युमेति नान्यः 'पन्था विद्यतेऽयनाय' इति ॥ १७ ॥ विमृश्य-विचार्य । त्वत्सन्निकर्षात्-तवोपनिषदोऽत्र स्थितौ तव संसर्गात् । दुर्वा- सनोपहतैः-कुमतिग्रस्तैः । अन्तेवासिभिः-शिष्यैः । श्लथादरैः-मन्दप्रवृत्तिभिः । प्रसी- दतु-दयताम् । स्वाभिलषितदेशगमनाय-स्वेष्टं स्थानान्तरमुपसर्त्तुम् । है, तमोमय स्वभावपिहित सप्तभुवनको जो प्रकाशित करे उसी ब्रह्मको जानकर विद्वान् मृत्युसे छुटकारा पाते हैं, संसारसे मुक्तिका दूसरा कोई उपाय नही है ॥ १७ ॥ पुरुष—तब ? उपनिषत्—इसके बाद यज्ञविद्यासे विचारकर कहा—सखि ! तुम्हारे सम्पर्कसे कर्मोंमें कुमतिग्रस्त मेरे शिष्योंकी मन्द प्रवृत्ति हो जायगी, इसलिये आप अपने अभिलषित देश जानेकी अनुकम्पा करें । पुरुष—इसके बाद ।