भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 244, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 244

२२४ प्रबोधचन्द्रोदयम् उपनिषत्—ततोऽहं तामतिक्रम्य प्रस्थिता । पुरुषः—ततस्ततः । उपनिषत्—ततः कर्मकाण्डसहचरी मीमांसा मया दृष्टा;— विभिद्य कर्माण्यधिकारभाञ्जि श्रुत्यादिभिश्चानुगता प्रमाणैः । अङ्गैर्विचित्रैरभियोजयन्ती प्राप्तोपदेशैरतिदेशकैश्च ॥ १८ ॥ पुरुषः—ततस्ततः । उपनिषत्—ततोऽहं तामपि तथैवाश्रयमभ्यर्थितवती । अथ तयाप्यु- क्तास्मि भद्रे, किं कर्मासीति । ततो मया तदेवोक्तम् । ताम्-यज्ञविद्याम् । अतिक्रम्य-परित्यज्य । प्रस्थिता-अग्रे चलिता । कर्मकाण्डसहचरी-कर्मकाण्डानुगता । विभिद्येति० कर्माणि ज्योतिष्टोमादीनि विभिद्य भेदेन ज्ञापयित्वा अधिकारभाञ्जि अधिकारः कर्मफलभागित्वरूपः तं भजन्ते तानि तथाविधानि च (प्रतिपाद्य) श्रुत्यादिभिः-श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिः संज्ञाभिः प्रथितैः प्रमाणैः अन- धिगतार्थबोधकैरनुगता उपेता विचित्रैः नानाभेदभिन्नैः सन्निपत्योपकारकारादुप- कारकादिप्रभेदैः अङ्गैः प्राप्तोपदेशैः साक्षादुपदिश्यमानैः अतिदैशिकैः अन्यत्र श्रुतस्य अन्यत्र प्रापणमतिदेशस्तेनापि प्रकारेण प्राप्तैः अभियोजयन्ती उपकुर्वाणा मीमांसा मया दृष्टेति पूर्वेणैकान्वयः। मीमांसाशास्त्रस्य नित्यनैमित्तिककाम्यकर्मबोधकत्वाऽधि- कारबोधनपरता च प्रतीतेव । श्रुत्यादिषड्विधप्रमाणावबोधकत्वमपि प्रसिद्धम् । साक्षादभिधानमुपदेशः, अन्यत्र श्रुतस्यान्यत्र प्राप्तमतिदेशस्तस्योत्तरषट्के विचारः। एतदधिकमन्यत्रात्रैव परिशिष्टे द्रष्टव्यम् ॥ १८ ॥ तथैव-यथा यज्ञविद्यां तथा । आश्रयमभ्यर्थितवती-स्वनिवासाय प्रार्थनां कृत उपनिषत्—तब मैं उसे छोड़कर आगे बढी । पुरुष—तब ? उपनिषत्—इसके बाद कर्मकाण्डसहचरी मीमांसा मिली । जो अधिकारानुकूल कर्म विभाग करके श्रुत्यादि प्रमाणोंसे अनुगत हो उपदेश तथ अतिदेशके द्वारा विचित्र अङ्गोंसे युक्त थी ॥ १८ ॥ पुरुष—तब ? उपनिषत्—इसके बाद मैने उससे भी उसीतरह प्रार्थना की । उसने भी कहा- भद्रे, तुम्हारा क्या कर्त्तव्य है ? मैने कहा—'यस्माद्विश्वम्' इत्यादि ।