प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 245, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २२५ यस्माद्विश्वमित्यादि पठितम् । पुरुषः—ततस्ततः । उपनिषत्—ततो मीमांसया पार्श्ववर्तिनां मुखमालोक्याभिहितम् । अस्त्येवास्माकमस्याः लोकान्तरफलोपभोगयोग्यपुरुषोपनयनेनोपयोगः । तत्क्रियतामेषा कर्मोपयुक्ता । तत्र तेषामन्तेवासिनां मध्ये केनाप्यन्तेवासि- नैतदनुमोदितमेव । अपरेण तु प्रसिद्धप्रतिष्ठेन मीमांसाहृदयाधिदैवतेन कुमारिलस्वामिनैवं प्रोक्तम् देवि, नेयं कर्मोपयुक्तं पुरुषमुपनयति, किंतु अकर्त्तारमभोक्तारमीश्वरम् । न चासावीश्वरः कर्मसूपयुज्यते । ततोऽपरे- णोक्तम् । अथ किं लौकिकात्पुरुषादन्य ईश्वरो नामास्ति । ततस्तेन विहस्य पुनरुक्तम् । अस्ति । तथाहि— चती । किं कर्मासि-किन्तव कर्म, त्वया किमाचरणीयमिति जिज्ञासा । तदेव-प्रागु- क्ताभिन्नाम् पार्श्ववर्त्तिनाम् समीपस्थानामनुचराणां शिष्याणां वा । अभिहित- मुक्तम् । अस्याः-लोकान्तरफलं-स्वर्गसुखादिरूपम् , तदुपभोगे योग्यस्य चेतनस्य स्थिरस्य च पुरुषस्य, उपनयनेन प्रतिपादनेन, उपयोगः कार्यम् । एषोपनिषत्स्थायि- चेतनपुरुषं सुपपादयन्ती । स्वर्गफलभोगयोग्यं पुमांसमुपनयतीत्युपयोगिनीत्यस्माकं भवतीत्यर्थः । तत्-तस्मात् । एषा-उपनिषत् । कर्मोपयुक्ता-कर्मणि नियुक्ता । पुरुष- स्तावकतयोपनिषद्द्विशेषतां नीयतामित्यर्थः । तथा च जैमिनीयं सूत्रम्-आम्ना- यस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्' इति । केनाप्यन्तेवासिना-प्रभाकरेणेत्यर्थः । ज्ञानकर्मसमुच्चयवादितया प्रभाकरस्योपनिषदनुमोदकत्वं बोध्यम् । अपरेण-अन्येने । प्रसिद्धप्रतिष्ठेन-ख्यातयशसा । मीमांसाहृदयाधिदैवतेन-मीमांसातत्त्ववेदिना । देवि- मीमांसे । इयम्-उपनिषत् । अकर्त्तारमभोक्तारम्-'साक्षी चेता केवलो निर्गुणश्च- त्यादिश्रुतिपर्यालोचनया यः पुमानवसीयते नासौ कर्त्ता न वा भोक्तेति तादृशम् । पुरुष—तब ? उपनिषत्—इसके बाद मीमांसाने पार्श्ववर्त्तियोंका मुख देखकर कहा—लोकान्तरमें फलभोग करनेवाले पुरुषका प्रतिपादन करनेवाली यह हमारे उपयोगकी वस्तु है, अतः इसे कर्ममें लगा दो। वहाँ कुछ मीमांसाके विद्यार्थियोंने इसका अनुमोदन भी किया। दूसरे प्रसिद्ध प्रतिष्ठित मीमांसाके दुलारे शिष्य कुमारिलने इस प्रकार कहा—देवि, यह कर्मोपयोगी पुरुषका प्रतिपादन कहाँ करती है ? यह तो अकर्त्ता अभोक्ता पुरुषका प्रतिपादन करती है। वैसे पुरुषको कर्मसे क्या संबन्ध ? इसपर दूसरेने कहा—लौकिक पुरुषसे पर ईश्वर है कौन ? फिर कुमारिलने हंसकर कहा है। जैसेः— १५ प्र० च०