प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 251, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २३१ पुरुषः—साधु साधु, प्रीणयति मानसं ममायं प्रज्ञावतो विमर्शः । ( उपनिषदं प्रति ) ततस्ततः । उपनिषत्—ततस्ताभिः सर्वाभिरेव क्रुद्धाभिरुक्तम्—अहो, विश्व- विलयेन मुक्तिमेषा वदन्ती नास्तिकपथं प्रस्थिता निगृह्यतामिति । ततः ससंरम्भं मां निग्रहीतुं प्रधाविताः सर्वाः । पुरुषः—( सत्रासम् ) ततस्ततः । उपनिषत्—ततोऽहं सत्वरतरं परिक्रम्य दण्डकारण्यं प्रविष्टा । ततो मन्दारशैलोपकल्पितस्य मधुसूदनायतनस्य नातिदूरे— बाह्रोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः । न्तरम् नीलोत्पलदलरुचाम् नीलकमलश्यामच्छवीनाम् अम्बुवाहावलीनाम् जलद- मालानाम् प्रादुर्भावे उदये वा नभसः आकाशस्य कीदृशो विकारः मेघकृता लिप्तता भवति । न कीदृशोऽपि विकारो यथा मेघमाल्योदितयापि नभसस्तथा जगदुदयेन ब्रह्मणोऽपि न विकारस्तस्य स्वभावनिर्मलत्वादिति भावः । अतश्च विकारित्वाशङ्का- तर्कविद्याभिः क्रियमाणाऽविमृश्य भाषितमिति पूर्वोक्तं समर्थमानं बोध्यम् ॥ २३ ॥ प्रीणयति-तोषयति । मानसम्-हृदयम् । प्रज्ञावतः-बुद्धियुक्तस्य । विमर्शः- विचारः । विश्वविलयेन-विश्वमिथ्यात्वज्ञानेन । एषा-उपनिषत् । नास्तिकपथम्- वेदविरुद्धं मार्गम् । ससरम्भम्=सक्रोधम् । निग्रहीतुम्-दण्डयितुम् , धर्तुं वा । प्रधाविताः-वेगेन चलिताः । सत्वरतरम्-अतिशीघ्रतया । दण्डकारण्यम्-दण्डक- नामकं काननम् । मन्दारशैलोपकल्पितस्य मन्दारनामकपर्वतोपरिस्थितस्य । मधु- सूदनायतनस्य-विष्णुमन्दिरस्य । नातिदूरे-समीपे । बाह्रोर्भग्ना इति० प्रागेव व्याख्यातमिदमिति तत्रैव दृश्यताम् । पुरुष—साधु साधु, तुम्हारी यह बुद्धिमानीकी बात मुझ प्रसन्न कर रही है । ( उप- निषदसे ) तब ? उपनिषद्—इस पर वह सभी क्रुद्ध हो कह उठीं, यह विश्वविलयसे मोक्ष कहती है, अतः यह नास्तिक हो रही है, इसे निगृहीत करो । इस पर बिगड़कर स्त्रियाँ मुझे निगृहीत करने को दौड़ी । पुरुष—( डरसे ) तब ? उपनिषत्—इस पर मै दौडती हुई दण्डकवनमें पैठ गई, फिर वहाँसे मन्दार पर वर्त्तमान मधूसूदन मन्दिरके पासमे— मेरे हस्तकङ्कणकी मणियाँ टूट-फूट गईं, चूड़ामणिके अपहरणसे केशपाश दूषित किया