भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 251, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 251

षष्ठोऽङ्कः २३१ पुरुषः—साधु साधु, प्रीणयति मानसं ममायं प्रज्ञावतो विमर्शः । ( उपनिषदं प्रति ) ततस्ततः । उपनिषत्—ततस्ताभिः सर्वाभिरेव क्रुद्धाभिरुक्तम्—अहो, विश्व- विलयेन मुक्तिमेषा वदन्ती नास्तिकपथं प्रस्थिता निगृह्यतामिति । ततः ससंरम्भं मां निग्रहीतुं प्रधाविताः सर्वाः । पुरुषः—( सत्रासम् ) ततस्ततः । उपनिषत्—ततोऽहं सत्वरतरं परिक्रम्य दण्डकारण्यं प्रविष्टा । ततो मन्दारशैलोपकल्पितस्य मधुसूदनायतनस्य नातिदूरे— बाह्रोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः । न्तरम् नीलोत्पलदलरुचाम् नीलकमलश्यामच्छवीनाम् अम्बुवाहावलीनाम् जलद- मालानाम् प्रादुर्भावे उदये वा नभसः आकाशस्य कीदृशो विकारः मेघकृता लिप्तता भवति । न कीदृशोऽपि विकारो यथा मेघमाल्योदितयापि नभसस्तथा जगदुदयेन ब्रह्मणोऽपि न विकारस्तस्य स्वभावनिर्मलत्वादिति भावः । अतश्च विकारित्वाशङ्का- तर्कविद्याभिः क्रियमाणाऽविमृश्य भाषितमिति पूर्वोक्तं समर्थमानं बोध्यम् ॥ २३ ॥ प्रीणयति-तोषयति । मानसम्-हृदयम् । प्रज्ञावतः-बुद्धियुक्तस्य । विमर्शः- विचारः । विश्वविलयेन-विश्वमिथ्यात्वज्ञानेन । एषा-उपनिषत् । नास्तिकपथम्- वेदविरुद्धं मार्गम् । ससरम्भम्=सक्रोधम् । निग्रहीतुम्-दण्डयितुम् , धर्तुं वा । प्रधाविताः-वेगेन चलिताः । सत्वरतरम्-अतिशीघ्रतया । दण्डकारण्यम्-दण्डक- नामकं काननम् । मन्दारशैलोपकल्पितस्य मन्दारनामकपर्वतोपरिस्थितस्य । मधु- सूदनायतनस्य-विष्णुमन्दिरस्य । नातिदूरे-समीपे । बाह्रोर्भग्ना इति० प्रागेव व्याख्यातमिदमिति तत्रैव दृश्यताम् । पुरुष—साधु साधु, तुम्हारी यह बुद्धिमानीकी बात मुझ प्रसन्न कर रही है । ( उप- निषदसे ) तब ? उपनिषद्—इस पर वह सभी क्रुद्ध हो कह उठीं, यह विश्वविलयसे मोक्ष कहती है, अतः यह नास्तिक हो रही है, इसे निगृहीत करो । इस पर बिगड़कर स्त्रियाँ मुझे निगृहीत करने को दौड़ी । पुरुष—( डरसे ) तब ? उपनिषत्—इस पर मै दौडती हुई दण्डकवनमें पैठ गई, फिर वहाँसे मन्दार पर वर्त्तमान मधूसूदन मन्दिरके पासमे— मेरे हस्तकङ्कणकी मणियाँ टूट-फूट गईं, चूड़ामणिके अपहरणसे केशपाश दूषित किया