भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 250, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 250

२३० प्रबोधचन्द्रोदयम् शुक्तौ रूप्यमिव स्रजीव भुजगः स्वात्मावबोधे हरा- वज्ञाते प्रभवत्यथास्तमयते तत्त्वावबोधोदयात् ॥ २२ ॥ विकारशङ्का तु मुग्धवधूविकल्पविलसितमिव । तथाहि— शान्तं ज्योतिः कथमनुदितानस्तनित्यप्रकाशं विश्वोत्पत्तौ व्रजति विकृतिं निष्कलं निर्मलं च । शश्वन्नीलोत्पलदलरुचामम्बुवाहावलीनां प्रादुर्भावे भवति नभसः कीदृशो वा विकारः ॥ २३ ॥ यि च, स्वप्नः प्रसिद्धः, इन्द्रजालम्-मायामन्त्रादिनाऽन्यथावस्तुनोऽन्यथाप्रदर्श- नम्, आदिना पीतशङ्खदर्शनादितद्वत्, यथा जलचन्द्रादयो भासमानस्वरूपा एव न सन्तस्तद्वदिदं जगदपि न वास्तवमिति भावः । जगतो जडत्वेनास्वप्रकाशतया ज्ञानविषयत्वं तदेव हेतुं कृत्वा कार्यत्वानुमानं ततश्चासत्यत्वप्रत्यय इति परमार्थः । जगत् स्वात्मावबोधे स्वप्रकाशे हरौ परात्मनि अज्ञाते शुक्तौ रूप्यमिव स्रजि मालायाम् भुजग इव च प्रभवति जायते, अथ तत्त्वावबोधोदयात् अद्वितीयब्रह्म- साक्षात्कारात् अस्तमयते निमीलति । यथा मालाऽज्ञाने शुक्त्यज्ञाने च रज्जुरजते उत्पद्येते मालाशुक्त्योश्च ज्ञानादुभयं विलीयते एवमात्माज्ञानाज्जगद्विवर्त्तते तज्ज्ञानाच्च विलीयते इत्याशयः । यथा जलचन्द्रादयोऽनिर्वचनीयास्तथा जगदपीति हृदयम् ॥ मुग्धवधूविकल्पविलसितमिव-बालवनिताविविधवचनमिव, अविमृश्य भाषित- मित्यर्थः । शान्तमिति० शान्तम् निर्विकारम् ज्योतिः प्रकाशस्वरूपम्, न उदितः प्रादुर्भूतः, न चास्तः कदाचिदपि नाशंगतः नित्यः स्वरूपलक्षणः प्रकाशो यस्य तादृशम्, (अनुदितेति जन्मनः अनस्तेति च विनाशस्य व्यावर्तनया नित्यतां पुष्यति) निष्कलम् निर्विशेषम् निर्मलं स्वभावशुद्धं ब्रह्म विश्वोत्पत्तौ जगत्सृष्ट्याम् विकृति कथम् व्रजति, न व्रजतीति भावः । प्रागुक्तविशेषणैर्विकारायोग्यस्य ब्रह्मणो जगदुत्प- त्तावपि न विकारित्वसम्भव इति भावः । तत्र दृष्टान्तमाह—शश्वदिति० शश्वत् निर- रूप्य तथा मालामे सर्पकी तरह उत्पन्न होते हैं और तत्त्वावबोध हो जाने पर अस्त हो जाते हैं ॥ २२ ॥ ईश्वरमें विकारकी शङ्का तो पामरस्त्री के मनोविकारकी तरह ही है । क्योंकि— अनुदित अनस्त नित्यप्रकाश शान्त ज्योतिःस्वरूप निष्कल निर्मल ब्रह्म विश्वोत्पत्तिसे विकृत कैसे हो जायगा ? नीलकमलके पत्तों सदृश मेघमालाके फैल जानेसे आकाशमें क्या विकार हो आता है ? ॥ २३ ॥