प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 250, कुल 274 में से
संदर्भ में पढ़ें२३० प्रबोधचन्द्रोदयम् शुक्तौ रूप्यमिव स्रजीव भुजगः स्वात्मावबोधे हरा- वज्ञाते प्रभवत्यथास्तमयते तत्त्वावबोधोदयात् ॥ २२ ॥ विकारशङ्का तु मुग्धवधूविकल्पविलसितमिव । तथाहि— शान्तं ज्योतिः कथमनुदितानस्तनित्यप्रकाशं विश्वोत्पत्तौ व्रजति विकृतिं निष्कलं निर्मलं च । शश्वन्नीलोत्पलदलरुचामम्बुवाहावलीनां प्रादुर्भावे भवति नभसः कीदृशो वा विकारः ॥ २३ ॥ यि च, स्वप्नः प्रसिद्धः, इन्द्रजालम्-मायामन्त्रादिनाऽन्यथावस्तुनोऽन्यथाप्रदर्श- नम्, आदिना पीतशङ्खदर्शनादितद्वत्, यथा जलचन्द्रादयो भासमानस्वरूपा एव न सन्तस्तद्वदिदं जगदपि न वास्तवमिति भावः । जगतो जडत्वेनास्वप्रकाशतया ज्ञानविषयत्वं तदेव हेतुं कृत्वा कार्यत्वानुमानं ततश्चासत्यत्वप्रत्यय इति परमार्थः । जगत् स्वात्मावबोधे स्वप्रकाशे हरौ परात्मनि अज्ञाते शुक्तौ रूप्यमिव स्रजि मालायाम् भुजग इव च प्रभवति जायते, अथ तत्त्वावबोधोदयात् अद्वितीयब्रह्म- साक्षात्कारात् अस्तमयते निमीलति । यथा मालाऽज्ञाने शुक्त्यज्ञाने च रज्जुरजते उत्पद्येते मालाशुक्त्योश्च ज्ञानादुभयं विलीयते एवमात्माज्ञानाज्जगद्विवर्त्तते तज्ज्ञानाच्च विलीयते इत्याशयः । यथा जलचन्द्रादयोऽनिर्वचनीयास्तथा जगदपीति हृदयम् ॥ मुग्धवधूविकल्पविलसितमिव-बालवनिताविविधवचनमिव, अविमृश्य भाषित- मित्यर्थः । शान्तमिति० शान्तम् निर्विकारम् ज्योतिः प्रकाशस्वरूपम्, न उदितः प्रादुर्भूतः, न चास्तः कदाचिदपि नाशंगतः नित्यः स्वरूपलक्षणः प्रकाशो यस्य तादृशम्, (अनुदितेति जन्मनः अनस्तेति च विनाशस्य व्यावर्तनया नित्यतां पुष्यति) निष्कलम् निर्विशेषम् निर्मलं स्वभावशुद्धं ब्रह्म विश्वोत्पत्तौ जगत्सृष्ट्याम् विकृति कथम् व्रजति, न व्रजतीति भावः । प्रागुक्तविशेषणैर्विकारायोग्यस्य ब्रह्मणो जगदुत्प- त्तावपि न विकारित्वसम्भव इति भावः । तत्र दृष्टान्तमाह—शश्वदिति० शश्वत् निर- रूप्य तथा मालामे सर्पकी तरह उत्पन्न होते हैं और तत्त्वावबोध हो जाने पर अस्त हो जाते हैं ॥ २२ ॥ ईश्वरमें विकारकी शङ्का तो पामरस्त्री के मनोविकारकी तरह ही है । क्योंकि— अनुदित अनस्त नित्यप्रकाश शान्त ज्योतिःस्वरूप निष्कल निर्मल ब्रह्म विश्वोत्पत्तिसे विकृत कैसे हो जायगा ? नीलकमलके पत्तों सदृश मेघमालाके फैल जानेसे आकाशमें क्या विकार हो आता है ? ॥ २३ ॥