भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 249, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 249

षष्ठोऽङ्कः २२६ कर्मोदाहृतम् । यस्माद्विश्वमित्यादि । ततस्ताभिः सप्रकाशोपहास- मुक्तम्—आः वाचाले, परमाणुभ्यो विश्वमुत्पद्यते । निमित्तकारणमीश्वरः । अन्यया तु सक्रोधमुक्तम्—आः पापे, कथमीश्वरमेव विकारिणं कृत्वा विनाशधर्मिणमुपपादयसि । ननु रे प्रधानाद्विश्वोत्पत्तिः । राजा—अहो दुर्मतयस्तर्कविद्या एतदपि न जानन्ति । सर्वं प्रमेय- जातं घटादिवत्कार्यमिति परमाणुप्रधानोपादानकारणमप्यपेक्षणीयमेवेति । तथाहि— श्रम्भःशीतकरान्तरिक्षनगरस्वप्नेन्द्रजालादिवत् कार्यं मेयमसत्यमेतदुदयध्वंसादियुक्तं जगत् । स्फुटमुपहस्य । वाचाले, बहुगर्ह्यभाषिणि, । परमाणुभ्यो जगदुत्पद्यतेऽतस्त एव कारणानि जगतः, ईश्वरस्तु कुलाल इव घटं प्रति जगत्प्रति निमित्तकारणमात्रम् । अन्यथा-साङ्ख्यविद्यया । ईश्वरस्य प्रकृतित्वे विकारिताऽऽपत्तौ विनाशिताप्रसङ्ग इति साङ्ख्यविद्योक्तेराशयः । दुर्मतयः-हत्तबुद्धयः । सर्वं प्रमेियमिति सामान्येन पक्षी- करणात् परमाणुप्रधानयोरपि । कार्यत्वमनुमीयमानं बोध्यमेवं च परमाणुप्रधानयोः कार्यत्वे तदुपादानकारणत्वमात्मन एव स्वीकर्त्तव्यमिति तर्कविद्यानामुपहासः कृतो वेद्यः । न चैवमात्मनो विकारित्वमाशङ्कनीयम् , अधिष्ठातृतयाऽविकारित्वस्योपपाद- नीयत्वादिति । अम्भः शीतकरेति० एतत् प्रत्यक्षदृश्यम् जगत् विश्वम् उदयध्वंसादियुक्तम् उत्प- त्तिविनाशशालि असत्यम् अलीकञ्च, यतः मेयम् ( अतः ) कार्यम् , मेयत्वेन हेतुना कार्यत्वमनुमीयते तेन च विनाशित्वानुमानम् । तत्र दृष्टान्तमाह-अम्भः शीतकरेति० अम्भः शीतकरो जलचन्द्रः, अन्तरिक्षनगरम् गन्धर्वनगरम् आकाशेऽवलोक्यमस्था- अपना कर्म वही बताया । उन लोगोंने अत्यन्त उपहास किया और कहा—अरी ओ मुखरे, परमाणुओंसे विश्वकी उत्पत्ति होती है, ईश्वर निमित्तकारण है। दूसरीने सक्रोध कहा— क्यों ईश्वर को ही विकारयुक्त बताकर विनाशधर्मा बना रही हो । विश्वकी उत्पत्ति तो प्रधानसे होती है। राजा—हाय, मूर्खा तर्कविद्यायें इतना भी नहीं जानती हैं कि सभी प्रमेय कार्य होते हैं अतः परमाणु और प्रकृतिको भी मूलकारणकी अपेक्षा होगी ही । क्योंकि— जब तक स्वात्मावबोधरूप ब्रह्मज्ञान नहीं होता तब तक चलचन्द्र, गन्धर्व नगर, स्वप्न, इन्द्रजालकी तरह यह जगद्रूप प्रमेय कार्य उत्पत्ति तथा विनाशी होनेके कारण शुक्तिमें