भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 248, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 248

२२८ प्रबोधचन्द्रोदयम्

अन्या तु प्रकृतेर्विभज्य पुरुषस्योदाहरन्ती भिदां तत्त्वानां गणनापरा महदहंकारादिसर्गक्रमैः ॥ २१ ॥ पुरुषः—ततस्ततः । उपनिषत्—तथैवाहं ताः समुपस्थिताः । ताभिश्चानुयुक्तया मया तदेव यो विशेषः तस्य कल्पने सक्ता, यद्वा द्वित्वस्य प्रागुक्तस्य विशेषस्य 'अन्त्यो नित्य- द्रव्यवृत्तिः' इति लक्षितस्य पदार्थभेद एव कल्पने निरूपणे परा लग्ना, परा गौतमी न्यायविद्या सच्छलजातिनिग्रहमयैः छलसहितजातिनिग्रहस्थानप्रचुरैः न्यायैः पञ्चा- वयवानुमानवाक्यैः वादं तत्त्वबुभुत्सुकथाम्, जल्पं जिगीषुकथाम्, वितण्डां परदूष- णावसानाम् अपि तन्वती विस्तारयन्ती, अन्या अपरा कापिली साङ्ख्यविद्या जगत्कारणीभूतां गुणत्रयसाम्यावस्थास्वरूपाम् प्रकृतिं प्रधानं विभज्य पृथक्कृत्य महदहङ्कारादिसर्गक्रमैः 'प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः' इत्येवं रीत्या तत्त्वानां चतुर्विंशतितत्त्वानां गणनापरा संख्यानासक्ता अवलोकिता इति पूर्वोक्तेनान्वयः । आदौ मया वैशेषिकविद्या दृष्टा या द्वित्वस्य वैशेषिकशास्त्रे कठिन- तया स्वीकृतस्य विशेषस्य तच्छास्त्रजीवातुभूतस्य च निरूपणे समासक्ताऽऽसीत् । 'अयमेकः अयमेक इतीमौ द्वौ' एतादृशापेक्षाबुद्धिजन्यं द्वित्वं, तस्य विषयेऽत्र शास्त्रे प्रचुरं विवेचितमत एव चायमुद्घोषः—'द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे, यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः' इति । ततः परतो न्यायविद्या दृष्टा, या त्रिविधामपि कथां पञ्चावयववाक्यप्रयोगैः विस्तारयन्त्यासीत्, छलम्-अर्थान्तर- प्रयुक्तस्य शब्दस्यार्थान्तरवर्णनम्, जातिरसदुत्तरम्, निग्रहः पराहङ्कारनिरासफलः । तन्मयैर्वादैश्च कथात्रयविस्तारः । प्रकृतेः पृथक्त्वेन पुरुषस्य प्रतिपादनं-यथा-'न प्रकृतिर्न विकृतिः पुरुषः' इति । सर्गक्रमश्च—'प्रकृतेर्महान् , महतोऽहङ्कारः, अह- ङ्कारात्पञ्चतन्मात्राणि, पञ्चतन्मात्रेभ्यो भूतानि, भुतेभ्यश्चाखिलं जगत्' इति । तत्त्वानां प्रकृतिमहदहङ्कारपञ्चतन्मात्रपञ्चभूतैकादशेन्द्रियरूपतया चतुर्विंशतिसङ्ख्यकानाम् अत्र गणनेति बोध्यम् ॥ २१ ॥ अनुयुक्तया-पृष्टया, 'प्रश्नोऽनुयोगः पृच्छा चे'ति कोशः । सप्रकाशोपहासम्-

पञ्चावयव वाक्यसे वाद, जल्प और वितण्डा रूप कथायें कह रही थीं, इससे अतिरिक्त कोई प्रकृति-पुरुष-विवेकसम्बन्धी सिद्धान्त स्थिर करती हुई महत् अहङ्कार आदि सृष्टिक्रममानुसार तत्त्वों की गणना कर रही थी ॥ २१ ॥ पुरुष—तब ? उपनिषत्—मैं उसी प्रकार उनके पास भी गई । उनके द्वारा पूछी जाने पर मैंने