प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 255, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २३५ विवेकः—पदार्थानवज्ञानाद्वाक्यार्थो नावगम्यते । आर्येणोक्तं तत्स- त्यमेव । पुरुष.—तदवबोधाय भगवानुपायमाज्ञापयतु । विवेकः—अयमुच्यते— एषोऽस्मीति विविच्य नेतिपदतश्चित्तेन सार्धं कृते तत्त्वानां विलये चिदात्मनि परिज्ञाते त्वमर्थे पुनः । श्रुत्वा तत्त्वमसीति बाधितभवध्वान्तं तदात्मप्रभं शान्तं ज्योतिरनन्तमन्तरुदितानन्दः समुद्योतते ॥ २७ ॥ लक्ष्यत इति वितर्कः । योऽह स्व परिच्छिन्नपरिमाणं जन्ममृत्युवार्धकादिग्रस्तं च पश्यामि तमेवेयं देवी तद्विपरीतं सच्चिदानन्दरूपमभिधातीति मम मनः प्रत्यय न बध्नातीति तात्पर्यम् ॥ २६ ॥ पदार्थानवज्ञानात्-तत्त्वं पदार्थयोः सम्यगनवबोधात् । वाक्यार्थो नावगम्यते- उपनिषत्प्रतिपादिततत्त्वमस्यादिमहावाक्यस्यार्थो जीवपरमात्माभेदरूपो न प्रतीयत इत्यर्थः । तदवबोधाय-वाक्यार्थज्ञानाय । भगवान्-विवेकः । उपायम्-पन्थानम् । आज्ञा- पयतु-ब्रवीतु । अयमुच्यते-उपाय इति शेषः । एषोऽस्मीति० नेतिपदतः नेति नेतीति श्रुत्या चित्तेन सार्धं विविच्य एषोऽन्तकर- णांशः एष चात्मांश इति विभागं कृत्वा एषोऽस्मीति तत्त्वानां भूतानामुपसंहारेण स्वात्मना विलये कृते पुनः त्वमर्थे निष्कृष्टजीवभावे चिदात्मनि तत्पदार्थे निष्कृष्टेश्वर- चैतन्ये ज्ञाते तत्त्वं पदार्थयोर्भागत्यागेन लक्षणया शोधने कृते तत्त्वमसीति श्रुत्वाऽ- न्तरुदितानन्दः अन्तःकरणाज्ञात्कारवृत्तौ प्रतिफलितस्वरूपः एष जीवः बाधित- भवध्वान्तं निरस्तसंसारमूलाविद्यं शान्तम् निष्क्रियम् अनन्तम् देशतः कालतश्चा- परिच्छिन्नाम् आत्मप्रभम् स्वस्वरूपप्रकाशम् ज्योतिः तेजोरूपम् समुद्योतते प्रकटी- भवति । पूर्वं नेतीति श्रुत्या चित्तपर्यन्तं स्वात्मना विवेकस्ततो जीवगतपरिच्छिन्न- विवेक—पदार्थ नहीं जाननेसे वाक्यार्थ नहीं जाना जाता है, आपने ठीक ही कहा है । पुरुष—तो उसके ज्ञानका उपाय आप बतावें । विवेक—यही कह रहा हूँ—'एषोऽस्मि' 'नेति' इत्यादि पदोंसे चित्तापेक्षया विवेक करके तत्त्वविलयद्वारा त्वमर्थ चिदात्माके जान लेने पर 'तत्त्वमसि' इस वाक्यसे संसारतमो- निवर्त्तक स्वयं प्रकाश अनन्त-शान्त-ज्योति प्रकट हो आता है ॥ २७ ॥