प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 256, कुल 274 में से
संदर्भ में पढ़ें२३६ प्रबोधचन्द्रोदयम् पुरुषः—( सानन्दम् ) श्रुतमर्थं परिभावयति । ( ततः प्रविशति निदिध्यासनम् ) निदिध्यासनम्—आदिष्टोऽस्मि भगवत्या विष्णुभक्त्या । यथा निगूढ- मस्मदभिप्रायमुपनिषद्विवेकेन सह बोधयितव्या । त्वया च पुरुषे वस्त- व्यमिति । ( विलोक्य ) एषा देवी विवेकपुरुषाभ्यां नातिदूरे वर्तते । याव- दुपसर्पामि ( उपसृत्य उपनिषदं प्रति जनान्तिकम् ) देव्या विष्णुभक्त्या समादिष्टं यथा संकल्पयोनयो देवता भवन्ति । मया च समाधानेन विदितं तथा आपन्नसत्त्वा भवतीति । तत्र च क्रूरसत्त्वा विद्या नाम कन्या त्वदु- दरे वर्तते प्रबोधोदयश्च । तत्र विद्यां सङ्कर्षविद्यया मनसि संक्रामयिष्यसि । प्रबोधचन्द्रं पुरुषे समर्प्य वत्सविवेकेन सह मत्समीपमागमिष्यसीति । स्वाद्यपगमस्ततोऽसंभावनानिवृत्तौ तत्त्वंपदयोरर्थस्यैक्यावधारणं ततः समूलाज्ञान- निवृत्तिरिति क्रमो बोध्यः । अधिकमन्यत्र ॥ २७ ॥ परिभावयति-विचारयति, विचारणञ्चात्र मननरूपम्, तच्च प्रागुक्तश्रुत्वेति श्रव- णोत्तरं बोध्यम् । निगूढम्-अतिगुप्तम् । उपनिषद् विवेकेन सह-विवेकोपनिषदौ बोधनीयावित्यत्र तात्पर्यम् । त्वया-निदिध्यासनेन । देवी-उपनिषत् । नातिदूरे-सन्निकृष्टे । सङ्कल्प- योनयः-सङ्कल्पो मानसो व्यापारस्तद्योनयस्तत्प्रभवाः, द्वन्द्वसंसर्गानपेक्षा इत्यर्थः । समाधनेन-योगजशक्त्या । आपन्नसत्त्वा-धृतगर्भा । विवेक सङ्कल्पादेव तव गर्भा- धानमिति त्वया न ज्ञायते, मया तु समाधानेन ज्ञातमिति मा विस्मयं कृथा इति भावः । क्रूरसत्त्वा-महामोहकुलस्य विवेककुलस्य च विनाशकत्वाद्विद्यायाः क्रूरता- पुरुष—( सानन्द ) श्रुत अर्थका विचार करता है। ( निदिध्यासनका प्रवेश ) निदिध्यासन—भगवती विष्णुभक्तिकी आज्ञा है कि चुपचाप हमारे अभिप्रायसे विवेक और उपनिषद्को अवगत कराओ और स्वयं तुम पुरुषके पास रहो। ( देखकर ) यह देवी विवेक और पुरुषके साथ समीपमें ही तो है । समीप जाता हूँ । ( समीप जाकर छिपाकर उपनिषद्से ) देवी विष्णुभक्तिने कहा है कि देवता सङ्कल्पयोनि हुआ करते हैं, मैने प्रणिधान द्वारा जाना है कि तुमको गर्भ है । तुम्हारे उदरमे प्रबोधोदय तथा विद्या नामकी क्रूरस्वभावा कन्या हैं। उनमें संकर्षविद्या द्वारा विद्याको मनके पास कर दो। प्रबोधचन्द्रोदयको पुरुषके हाथ सौंपकर वत्स विवेकके साथ मेरे पास चली आना ।