भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 257, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 257

षष्ठोऽङ्कः २३७ उपनिषत्—यदादिशति देवी । ( इति विवेकमादाय निष्क्रान्ता ) ( निदिध्यासनं पुरुषो विशति ) पुरुषः—( ध्यानं नाटयति ) ( नेपथ्ये आश्चर्यमाश्चर्यम् ) उद्दामद्युतिदामभिस्तडिदिव प्रद्योतयन्ती दिशः प्रत्यग्रस्फुटदुत्कटास्थि मनसो निर्भिद्य वक्षःस्थलम् । कन्येयं सहसा समं परिकरैर्मोहं ग्रसन्ती भज- त्यन्तर्धानमुपैति चैकपुरुषं श्रीमान्प्रबोधोदयः ॥ २८ ॥ ( ततः प्रविशति प्रबोधोदयः ) त्रोक्ता । सङ्कर्षणविद्या-योगजनिताकर्षणरूपया । मनसि सङ्क्रामयिष्यसि-मनसः पार्श्वं प्रेषयिष्यसि । श्रूयते हि भागवते-सङ्कर्षणो देवकीजठराद्रोहिणीजठरं प्रापितो योगबलेन । अत एवेमां विद्यां सङ्कर्षणविद्येत्याह । विद्याया अन्तःकरणधर्मतया मनसि सङ्क्रमणमुक्तम् । निदिध्यासनम्-विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहः । उद्दामद्युतिदामभिरिति० उद्दामद्युतिदामभिः उद्दामाः अप्रतिहताः द्युतय एव दामा- निमालाः ताभिः प्रवाहभावमापन्नाभिर्युतिभिः तडित् विद्युदिव दिशः आशावका- शान् प्रद्योतयन्ती प्रत्यग्रस्फुटदुत्कटास्थि अभिनवदलत्कीकससन्धि मनसः अन्तः- करणस्य वक्षःस्थलम् हृदयपुण्डरीकं निर्भिद्य विदार्य इयं कन्या विद्यापरिकरैः कामा- दिभिरनुचरैः सहितम् मोहम् ग्रसन्ती समापयन्ती अन्तर्धानं व्रजति श्रीमान् प्रबो- धोदयश्च पुरुषमेति सन्निधत्ते । हृत्पुण्डरीकभेदनेन विद्यावृत्तौ जातायां सा वृत्तिः कतकरजोन्यायेनाविद्यां नाशयित्वा स्वयमपि विनश्यति तदभिप्रायेणैव 'मोहं ग्रसन्ती अन्तर्धत्ते' इत्युक्तम् । इयं जीवन्मुक्तास्थितिः ॥ २८ ॥ उपनिषत्—देवीकी जो आज्ञा । ( विवेकके साथ जाती है ) ( निदिध्यासन पुरुषमे समाविष्ट होता है ) पुरुष—( ध्यान करता है ) ( नेपथ्यमें आश्चर्य, आश्चर्य यह शब्द होता है ) बिजलीकी तरह तेजोधारासे दिशाओंको आलोकित करती हुई मनके वक्षःस्थलको तड तड़ करके भिन्नकर यह विद्या कन्या सपरिकर मोहको ग्रस्त करती हुई अन्तर्हित हो रही है और प्रबोधोदय पुरुषको प्राप्त होता है ॥ २८ ॥ ( प्रबोधोदयका प्रवेश )

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक) · पृष्ठ 257, कुल 274 में से · BharatKosha