भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 258, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 258

२३८ प्रबोधचन्द्रोदयम् प्रबोधोदयः- किं वाप्तं किमपोहितं किमुदितं किं वा समुत्सारितं स्यूतं किं नु विलायितं नु किमिदं किञ्चिन्न वा किञ्चन । यस्मिन्नभ्युदिते वितर्कपदवीं नैवं समारोहति त्रैलोक्यं सहजप्रकाशदलितं सोऽहं प्रबोधोदयः ॥ २६ ॥ ( परिक्रम्य ) एष पुरुषः । यावदुपसर्पामि । ( उपसृत्य ) भगवन् , प्रबोध- चन्द्रोदयोऽहमभिवादये । पुरुषः- ( साहादम् ) एहि पुत्र, परिष्वजस्व माम् । ( प्रबोधोदयस्तथा करोति ) पुरुषः- ( सानन्दम् ) अहो, विघटिततिमिरपटलं प्रभातं संजातम् । किं वाप्तमिति० यस्मिन् प्रबोधोदये ज्ञाने अभ्युदिते जाते सहजप्रकाशदलितं नैस- र्गिकप्रभाध्वस्तं त्रैलोक्यम् इयं जगत्त्रयी किं वा आप्तम् प्राप्तम् ? अपोहितम् नाशितम् क्रिय ? उदितम् उत्पन्नम् किम् ? किं वा समुत्सारितम् दूरे क्षिप्तम् ? स्यूतम् वस्त्रादि- वद्ग्रथितम् किम् ? किन्तु विलायितम् आकाशादिक्रमेण कारणे लीनम् ? किमिदं किञ्चित् सद्ग्रूपम् ? वा न किञ्चन असद्रूपम् ? एवं वितर्कपदवीम् सम्भावनाविषय- ताम् न समारोहति, (ईदृक्तया इदन्तया च परिच्छेत्तुमशक्यं नित्य।नित्यभिन्न- विगलितसकलभावं चात एव चानिर्वचनीय जगज्जायते यत्र जाते ) सोऽहं प्रबोधो- दयः अस्मीति शेषः ॥ २९ ॥ परिष्वजस्व-आश्लिष्य । तथाकरोति-पुरुषमालिङ्गति । विघटिततिमिरपट लम्-अपगतज्ञानावरणम् । प्रभातम्-बोधोदयः, 'संसार- क्या पाया, क्या खोया, क्या गया, यह स्यूत-सा है या ढाला हुआ-सा है, यह कुछ ' ना कुछ नही है, जिसके उदित होने पर इस तरहके वितर्क मार्गमें त्रैलोक्य नहीं ठह मकता, क्योंकि स्वाभाविक प्रकाशसे त्रैलोक्यमूल तम दलित हो जाता है, ऐसा प्रबोधोदय हूँ ॥ २९ ॥ ( चलकर ) यह पुरुष है । इनके समीप जाऊँ । ( समीप जाकर ) भगवन् , मै प्रबो चन्द्रोदय प्रणाम करता हूँ । पुरुष- ( आह्लादके साथ ) आओ पुत्र, गलेसे लगो । ( प्रबोधोदय गलेसे लगता है ) पुरुष-(सानन्द) अहो, अन्धकारराशिको विघटितकर प्रभात हो गया है । क्योंकि