प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 262, कुल 274 में से
संदर्भ में पढ़ें२४२ प्रबोधचन्द्रोदयम् क्षीणीचन्द्रखबाहुसम्मितशरच्छाशातिथौ फाल्गुने चन्द्रे पुष्यति देवपूज्यदिवसे श्रीशारदानुग्रहात् । रांचीस्थायिनि राज्यसंस्कृतमहाविद्यालये पूर्णता- मानीतेयमुमामहेश्वरपदाम्भोजेषु विश्राम्यतु ॥ २ ॥ 'विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा'- उक्त्वैतद्विसुखीभवामि न मनागालोचनावर्त्मनः । ते हि स्वर्णपरीक्षणैकनिकषा निष्पक्षपातां दशां प्रक्षिप्यात्मगुणोचितादरभुवं कुर्युर्ममेमां कृतिम् ॥ ३ ॥ छिद्रान्वेषणमात्रसज्जधिषणानप्यत्र दोषान्वहून् ग्रन्थे दर्शयतो न मत्सरितया निन्दामि किन्त्वर्थये ॥ निर्दोषेण पथा प्रशस्तरचनां निर्माय काञ्चित्कृतिं लोकेभ्यः समुपाहरन्तु भविता भूयो यशोऽनेन वः ॥ ४ ॥ मान्यान्यानहमाद्रिये नतशिरास्ते ते सखायश्च मे येषामाग्रहातो विदन्नपि निशां शक्ति प्रवृत्तोऽभवम् ॥ व्याख्यानेऽत्र न तैरियं मम कृतिः कार्याऽन्यथा दृक्पदं सर्वानिन्दितकीर्तिलाभसुभगं भाग्यं कुतोऽस्मादृशाम् ॥ ५ ॥ इति मुजफ्फरपुरमण्डलान्तःपाति-'एकड़ी'ग्रामवासिना-रांचीस्थराजकीय- संस्कृतमहाविद्यालये साहित्याध्यापकेन व्याकरणवेदान्तसाहित्या- चार्योपाधिप्रसाधिना मैथिलपण्डित श्रीरामचन्द्रमिश्रशर्मणा विरचितायां 'प्रवोधचन्द्रोदय'नाटकस्य टीकायां प्रकाशाभिधायां षष्ठाङ्क'प्रकाशः' । शुभमस्तु ।