भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 31, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 31

प्रथमोऽङ्कः १३ येन च— विवेकेनेव निर्जित्य कर्णं मोहमिवोर्जितम् । श्रीकीर्तिवर्मनृपतेर्बोधस्येवोदयः कृतः ॥ ६ ॥ ( नेपथ्ये ) आः पाप शैलूषाधम, कथमस्मासु जीवत्सु स्वामिनो महामोहस्य विवेककशात्पराजयमुदाहरसि । सूत्रधारः—( ससंभ्रमं विलोक्य ) आर्ये, इतस्तावत् । उत्तुङ्गपीवरकुचद्वयपीडिताङ्ग- विवेकेनेवेति० येन भूपगोपालेन ऊर्जितम् बलशालिनम् कर्णं तदाख्यं नृपम् निर्जित्य पराभूय ऊर्जितम् अत्युच्छ्रितम् मोहम् सांसारिकबन्धनं ममत्वादिकम् निर्जित्य विवेकेन विचारेण प्रबोधस्य आत्मस्वरूपज्ञानस्य उदयः प्रकाश इव श्रीकी- र्त्तिवर्मनृपतेः तदाख्यस्य उदयः साम्राज्यपदारोपणात्समोन्नतिः कृतः । यथा विवेकेन महाराजेन महामोहाख्यं रिपुं विजित्य बोधस्योदयः कृतस्तथा गोपालेन कर्णाख्यं राजानं निर्जित्य कीर्त्तिवर्मनृपतेरभ्युदयः कृत इति भावः ॥ ९ ॥ अत्र कथोद्घाताख्यमामुखाङ्गं निरूपितम् , सूत्रधारोक्तिमनुसृत्य पात्रप्रवेशात् । तदुक्तम्—'स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत्पात्रं कथोद्घातो द्विधैव सः' इति । शैलूषाधम-नीचनट । अस्मासु = विवेकविरोधेषु मोहपक्षपातिषु च मदमात्सर्या- दिषु । जीवत्सु = प्राणान् धारयत्सु । स्वामिनः = प्रभोः । विवेककशात्=विवेकतः । पराजयम् = पराभवम् । उदाहरसि = कथयसि । अस्मासु मोहपक्षगेषु मदमात्सर्या- दिषु तिष्ठत्सु विवेककृतं मोहस्य पराजयं ब्रुवाणस्य तव नटाधमस्य मूर्खत्वं प्रकटमित्यर्थः । ससंभ्रमम्-सभयम् , भयञ्चात्राकस्मादतिप्रबलप्रतापकामदर्शनेन । उत्तुङ्गेति० उत्तुङ्गौ उन्नतौ पीवरौ पीनौ कुचौ स्तनौ तयोर्द्वयेन युग्मेन पीडितम् जिस प्रकार विवेकने उद्रिक्त मोहको जीतकर प्रबोधको उदय प्रदान किया उसी तरह गोपाल भूपालने कर्ण नृपतिको जीतकर कीर्त्तिवर्माको उदय दिया ॥ ९ ॥ ( नेपथ्यमें ) आः पाप, नीच नट, हमारे जीते स्वामी महामोहका विवेकसे हारना बताता है ! सूत्रधार—( घबड़ाहटसे देखकर ) आर्ये, इधर तो देखो— उत्तुङ्गस्तनद्वय द्वारा शरीरको मसलकर रोमाञ्चित बाहुओं से रति द्वारा आलिङ्गित