प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 31, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः १३ येन च— विवेकेनेव निर्जित्य कर्णं मोहमिवोर्जितम् । श्रीकीर्तिवर्मनृपतेर्बोधस्येवोदयः कृतः ॥ ६ ॥ ( नेपथ्ये ) आः पाप शैलूषाधम, कथमस्मासु जीवत्सु स्वामिनो महामोहस्य विवेककशात्पराजयमुदाहरसि । सूत्रधारः—( ससंभ्रमं विलोक्य ) आर्ये, इतस्तावत् । उत्तुङ्गपीवरकुचद्वयपीडिताङ्ग- विवेकेनेवेति० येन भूपगोपालेन ऊर्जितम् बलशालिनम् कर्णं तदाख्यं नृपम् निर्जित्य पराभूय ऊर्जितम् अत्युच्छ्रितम् मोहम् सांसारिकबन्धनं ममत्वादिकम् निर्जित्य विवेकेन विचारेण प्रबोधस्य आत्मस्वरूपज्ञानस्य उदयः प्रकाश इव श्रीकी- र्त्तिवर्मनृपतेः तदाख्यस्य उदयः साम्राज्यपदारोपणात्समोन्नतिः कृतः । यथा विवेकेन महाराजेन महामोहाख्यं रिपुं विजित्य बोधस्योदयः कृतस्तथा गोपालेन कर्णाख्यं राजानं निर्जित्य कीर्त्तिवर्मनृपतेरभ्युदयः कृत इति भावः ॥ ९ ॥ अत्र कथोद्घाताख्यमामुखाङ्गं निरूपितम् , सूत्रधारोक्तिमनुसृत्य पात्रप्रवेशात् । तदुक्तम्—'स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत्पात्रं कथोद्घातो द्विधैव सः' इति । शैलूषाधम-नीचनट । अस्मासु = विवेकविरोधेषु मोहपक्षपातिषु च मदमात्सर्या- दिषु । जीवत्सु = प्राणान् धारयत्सु । स्वामिनः = प्रभोः । विवेककशात्=विवेकतः । पराजयम् = पराभवम् । उदाहरसि = कथयसि । अस्मासु मोहपक्षगेषु मदमात्सर्या- दिषु तिष्ठत्सु विवेककृतं मोहस्य पराजयं ब्रुवाणस्य तव नटाधमस्य मूर्खत्वं प्रकटमित्यर्थः । ससंभ्रमम्-सभयम् , भयञ्चात्राकस्मादतिप्रबलप्रतापकामदर्शनेन । उत्तुङ्गेति० उत्तुङ्गौ उन्नतौ पीवरौ पीनौ कुचौ स्तनौ तयोर्द्वयेन युग्मेन पीडितम् जिस प्रकार विवेकने उद्रिक्त मोहको जीतकर प्रबोधको उदय प्रदान किया उसी तरह गोपाल भूपालने कर्ण नृपतिको जीतकर कीर्त्तिवर्माको उदय दिया ॥ ९ ॥ ( नेपथ्यमें ) आः पाप, नीच नट, हमारे जीते स्वामी महामोहका विवेकसे हारना बताता है ! सूत्रधार—( घबड़ाहटसे देखकर ) आर्ये, इधर तो देखो— उत्तुङ्गस्तनद्वय द्वारा शरीरको मसलकर रोमाञ्चित बाहुओं से रति द्वारा आलिङ्गित