प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 32, कुल 274 में से
संदर्भ में पढ़ें१४ प्रबोधचन्द्रोदयम् मालिङ्गितः पुलकितेन भुजेन रत्या । श्रीमाञ्जगन्ति मदयन्नयनाभिरामः कामोऽयमेति मदघूर्णितनेत्रपद्मः ॥ १० ॥ मद्वचनाच्चायमुपजातक्रोध इव लक्ष्यते । तदपसरणमेवास्माकमितः श्रेयः । ( इति निष्क्रान्तौ ) प्रस्तावना । ( ततः प्रविशति यथानिर्दिष्टः कामो रतिश्च ) आमृष्टम् अङ्गम् शरीरावयवः यत्र कर्मणि तथा पुलकितेन सात्त्विकभावोचितरोमा- ञ्चयुतेन भुजेन बाहुना करणेन रत्या कामदेवस्त्रिया आलिङ्गितः आश्लिष्टः, श्रीमान् शोभाशाली माहात्म्ययुक्तो वा, जगन्ति लोकान् मदयन् स्वैः प्रखरप्रतापैर्बाणैः कामातुराणि कुर्वन्, नयनाभिरामः नेत्रोत्सवप्रदः मदघूर्णितनेत्रपद्मः मद्यपानजनितेन विकारेण तरलदृष्टिकमलः अयम् पुरोवर्त्ती कामः एति आगच्छति । स्वस्त्रिया रत्या गाढमालिङ्ग्यमानो मदघूर्णितदृष्टिर्जगन्ति मदयंश्च कामोऽयमेतीति भावार्थः । अत्र कामोऽयमेतीत्येतावतावाक्यसमाप्तौ जातायां पुनः ‘मदघूर्णितनेत्रपद्मः’ इति विशेषण- दानात्समाप्तपुनरात्तत्वं दोषः । वसन्ततिलकं वृत्तम्, तल्लक्षणं यथा—‘उक्तं वसन्त- तिलकं तभजा जगौ गः’ इति ॥ १० ॥ मद्वचनात् = मदुक्तेः । उपजातक्रोधः = सञ्जातकोपः । लक्ष्यते = प्रतीयते । अप- सरणम् = पलायनम् । श्रेयः = हितकरम् । बलवति क्रोधशालिनि सन्निहिते पलाय- नादन्यन्न शरणमिति तात्पर्यम् । निष्क्रान्तौ = निर्यातौ नटीसूत्रधारावित्यर्थः । प्रस्तावना—‘नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्त विज्ञेयं नाम्ना प्रस्तावनाऽपि सा’ ॥ संसारको मतवाला बना देनेवाला मस्तीमें आँखोंको घुमाता हुआ यह श्रीमान् कामदेव इधर आ रहा है ॥ १० ॥ हमारी बातोंसे यह रुष्ट सा मालूम पड़ रहा है, इसलिये यहाँ से हम लोगोंका हट जाना ही श्रेयस्कर है । ( दोनों जाते हैं ) प्रस्तावना ( वर्णितरूपमें काम और रतिका प्रवेश )