प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 34, कुल 274 में से
संदर्भ में पढ़ें१६ प्रबोधचन्द्रोदयम् तद्भोः कीदृगसौ विवेकविभवः कीदृक्प्रबोधोदयः ॥ १२ ॥ रतिः—आर्यपुत्र, गुरुः खलु महाराजमहामोहस्य प्रतिपक्षो विवेक इति तर्कयामि । ( अज्जउत्त, गुरुओ क्खु महाराजमहामोहस्स पडिवक्खो विवेओ त्ति तक्केमि ) कामः—प्रिये, कुतस्तवैदं स्त्रीस्वभावसुलभं विवेकाद्भयमुत्पन्नम् । पश्य— अपि यदि विशिखाः शरासनं वा कुसुममयं ससुरासुरं तथापि । मम जगदखिलं वरोरु नाज्ञामिदमतिलङ्घ्य धृतिं मुहूर्तमेति ॥ १३ ॥ कदापि न व्यर्थतांगतानि मे मम कामस्य शस्त्राणि विजयसाधनानि प्रहरणानि यदि परितः जयन्ति सर्वोत्कर्षेण वर्तन्ते हन्त भोः ! अहह ! तत् तदाऽसौ विवेकविभावः विवे- कस्य प्रभावः कीदृक् कथंभूतः, प्रबोधोदयः ज्ञानोदयः (च) कीदृक् ? अयमर्थः-उद्दी- पनसाधनतया प्रसिद्धानि हर्म्ययुवतिजनलताभ्रमरवसुरभिवातचन्द्रातपदीनि मद- स्त्राणि यदि सन्ति तदा का कथा विवेकविभवस्य का वा कथा प्रबोधोदयस्य, नैकपि तयोः सेद्धुमर्हति, सर्वविजयिमदीयप्रभावैः सर्वेषामेव कामपरतन्त्रताया अवश्यं- भावित्वात्तत्पथानुसारणप्रवृत्तौ विवेकविभवप्रबोधोदययोर्दूरापेतत्वादिति । 'हर्म्यादि धनिनां वासः' इत्यमरः। शार्दूलविक्रीडितं वृत्तम् । लक्षण तस्यान्योक्तम् ॥ १२ ॥ गुरुः—महान् । प्रतिपक्षः = विपक्षः, शत्रुरित्यर्थः । तर्कयामि = ध्यायामि । स्त्रीस्वभावसुलभ=नारीजनप्रकृतिलभ्यम् । नार्यो ह्यल्पेनैव कारणेन महाभीति- मुपेत्य चञ्चला भवन्तीति भावः । अपीति० हे वरोरु सुन्दरजङ्गे, यदि अपि यदपि मम विशिखाः बाणाः ( कुसुम- मयाः ) शरासनम् धनुः वा कुसुममयम् पुष्पस्वरूपम् तथापि ससुरासुरम् देवदानव- सहितम् इदम् अखिलम् समग्रम् जगत् संसारः मम आज्ञाम् आदेशम् अतिलङ्घ्य अतिक्रम्य मुहूर्तम् क्षणम् अपि धृतिम् धैर्यम् स्वरूपावस्थानम् न एति प्राप्नोति । अयमाशयः— अहमेभिः पौष्पैर्बाणैः कुसुममयेन चानेनैव धनुषा निखिलस्यापि देव- वर्त्तमान ही है तब विवेकका विभव कैसा ? और प्रबोधका उदय कैसा ॥ १२ ॥ रति—आर्यपुत्र, महाराज मोहका विपक्षीविवेक बड़ा भारी दुश्मन है ऐसा प्रतीत होता है । काम—प्रिये ! क्यों तुझे स्त्रीस्वभावके कारण विवेक का भय हो गया ? देखो— यद्यपि मेरे बाण और धनुष फूल के ही हैं, फिर भी यह सारा संसार मेरी आज्ञाका एक क्षण के लिये भी उल्लङ्घन करके नही ठहर सकता है ॥ १३ ॥