प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 35, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः १७ तथाहि— अहल्यायै जारः सुरपतिरभूदात्मतनयां प्रजानाथोऽयासीद्भजत गुरोरिन्दुरबलाम् । इति प्रायः को वा न पदमपथेऽकारयत मया श्रमो मद्बाणानां क इव भुवनोन्माथविधिषु ॥ १४ ॥ रतिः—आर्यपुत्र, एवं नैतत् । तथापि महासहायसंपन्नः शङ्कितव्यो- दानवोपेतस्य विश्वस्योपरि स्वामाज्ञां प्रचारयितुं क्षमस्तदस्यां स्थितौ मोहमहाराजस्य विजयं प्रत्याशङ्का तव नितान्तनिर्र्मूला स्त्रीप्रकृतिमात्रप्रभवेति । अत्र 'विशिखाः' इत्यनेन भोगे कर्त्तव्ये 'कुसुममयम्' इति पदं विभक्तिलिङ्गयोर्विपरिणमनीयम् स्पष्टमन्यत् ॥ १३ ॥ अहल्यायै इति० सुरपतिः इन्द्रः अहल्यायै तदाख्यायै गौतममुनिपत्न्यै जारः प्रच्छ- न्नकामुकः अभूत्, प्रजानाथः ब्रह्मा आत्मतनयाम् शतरूपाम् अयासीत् कामेन मिथुनीभावंगतः । इन्दुः चन्द्रः गुरोः बृहस्पतेः अबलाम् स्त्रियम् अभजत सिषेवे । इति एवमुक्तप्रकारेण प्रायः कः मया अपथे अमार्गे पदम् न अकारयत कुमार्गे न नीतः, सर्वोऽपि कुमार्गं गमित इत्यर्थः । भुवनोन्माथविधिषु संसारकदर्धनकर्मणि मद्बाणा- नाम् मम सायकानाम् क इव श्रमः आयासः ? अनायासमेव मम बाणा भुवंमाकुल- यितुं क्षमा यतोऽनेन प्रायः सर्वेऽपि कुमार्गं गमितास्तथाहि देवेन्द्रोऽहल्याजारोऽ- भूद्ब्रह्मा स्वां दुहितरं शतरूपामकामयत शशाङ्कश्च गुरुस्त्रियं तारा मदुपयत्तदिह भुवनोन्माथे दक्षा मम बाणा इत्यस्ति मम पराक्रमप्रकर्षस्तन्मा मोह महाराजस्य पराभवं चिन्तयेति भावः । अत्राहल्यायै इति चतुर्थी श्रुत्यनुकरणेन । 'अपथे' इत्यत्र 'पथो विभाषा' इति समासान्तोऽप् । प्रसिद्धं च ब्रह्मणः स्वतनयाकामुकत्वं तथा चोक्तं पुष्पदन्तेनापि महिम्नः स्तोत्रे— 'प्रजानाथं नाथप्रसभमभिक स्वां दुहितरम्' इति । 'को वा न पदमपथेऽकारयत' इति वाक्ये क इति कर्म 'हृक्रोरन्यतरस्याम्' इति अणौ कर्त्तुर्णौ कर्मत्वानुशासनात् । 'अपन्थास्त्वपथं तुल्ये' इत्यमरः । शिखरिणीवृत्तम्—'रसै- र्रुद्रैश्छिन्ना यमनसभलागः शिखरिणी' इति च तल्लक्षणम् ॥ १४ ॥ 'एवं नेदम्' इति शौरसेन्याः 'एवं नैतत्' इति संस्कृतम् । भवदुक्तं न मिथ्येति क्योंकि—इन्द्र को अहल्या जार बनना पडा; प्रजापति अपनी कन्या पर आसक्त हुए, चन्द्रमा ने बृहस्पति की स्त्री को दूषित किया, इस तरह प्रायः सभी हमारे बाणों से कुमार्ग पर लाये गये हैं, इस संसार को मथ देने में हमारे बाणों को मिहनत ही कितनी है ? ॥ १४ ॥ रति—आपका कहना ठीक है, फिर भी सहायसम्पन्न शत्रु से डरना चाहिये, सुनती