प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 50, कुल 274 में से
संदर्भ में पढ़ें३२ प्रबोधचन्द्रोदयम् राजा—प्रिये, सततधृतिरप्युच्चैः शान्तोऽप्यवाप्तमहोदयोऽ- प्यधिगतनयोऽप्यन्तःस्वच्छोऽप्युदीरितधीरपि । त्यजति सहजं धैर्यं स्त्रीभिः प्रतारितमानसः स्वयमपि यतो मायासङ्गात्पुमानिति विश्रुतः ॥ २५ ॥ मतिः—आर्यपुत्र, नूनमन्धकारलेखया सहस्ररश्मेस्तिरस्कारो यथा तथा मायया स्फुरन्महाप्रकाशसागरस्य देवस्याप्यभिभवः । (अज्जउत्त, णं खु अन्धकारलेहाए सहस्सरस्सिणो तिरक्कारो जहा तथा माआए स्फुरन्तमहाप्प- आससाअरस्स देवस्स वि अहिहवो ) सततेति० सततधृतिः सनातनधैर्यः अपि उच्चैः उन्नतः अपि शान्तः शान्तियुक्तः अपि, अवाप्तमहोदयः प्राप्तकामोऽपि, अधिगतनयः नीतिज्ञः अपि, अन्तःस्वच्छः विम- लान्तःकरणः अपि, उदीरितधीः समयोचितज्ञानः अपि, स्त्रीभिः वनिताभिः प्रतारित- मानसः वञ्चितबुद्धिः सहजम् स्वाभाविकम् धैर्यम् गभीरत्वम् त्यजति जहाति, यतः यस्मात् कारणात् मायासङ्गात् अविद्यासम्बन्धवशात् पुमान् इति विश्रुतः प्रसिद्धः । अयमाशयः-सदाधैर्यधारी महान् शान्तिमत्तया प्रथितः प्राप्तप्रकामसमृद्धिः समभ्य- स्तनीतिशास्त्रो निर्मलान्तःकरणोऽपि लोको ललनावाञ्चितचित्ततया व्यक्षिप्यमाणः सन् स्वभावसिद्धमपि धीरत्वं मुञ्चति, अन्यस्य का कथा परमेश्वरस्याप्यविद्यासम्बन्धव- शादेव परिच्छिन्नप्रमातृतया पुमानिति या प्रसिद्धिरतत्रापि ललनाभूताऽविद्यैवकारण- मिति । हरिणीवृत्तम्, ‘नसमरसला गः षड्वेदैर्हयैर्हरिणी मता’ इति तल्लक्षणम् ॥२५॥ अत्र युक्तिर्नाम मुखसन्धेः पञ्चममङ्गयुक्तं वेदितव्यम् । तल्लक्षणं यथा—‘युक्तिः संशयितार्थस्य निर्णयः परिकीर्त्तितः’ इति । अत्र मत्या संशयितार्थस्य निर्णया- त्समन्वयः । नूनम्-निश्चयेन । अन्धकारलेखया-तमसः पङ्क्त्या सहस्ररश्मेः-सूर्यस्य । तिर- स्कारः-आच्छादनम् । स्फुरन्महाप्रकाशसागरस्य-प्रकाशीभवदनन्ततेजोराशेः। देवस्य-, राजा—प्रिये, अबाध धैर्य, शान्त महान् उदयको प्राप्त, नीतिके ज्ञाता, स्वच्छ, बुद्धिमान् होकर भी स्त्रियों द्वारा छले जाने पर स्वाभाविक धीरतासे च्युत हो जाते हैं, इसीलिये परमेश्वर भी मायासंसर्गसे पुमान् कहाने लगे हैं ॥ २५ ॥ मति—आर्यपुत्र, जिस प्रकार सूर्य का अभिभव अन्धकार द्वारा होता है उसी प्रकार माया द्वारा ब्रह्मका अभिभव हुआ ।