प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 51, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ३३ राजा—प्रिये, अविचारसिद्धेयं वेश्याविलासिनीव माया असतोऽपि भावानुपदर्शयन्ती परपुरुषं वञ्चयति । पश्य— स्फटिकमणिवद्भास्वान्देवः प्रगाढमनार्यया विकृतिमलया नीतः कामप्यसङ्गतविक्रियः । न खलु तदुपश्लेषादस्य व्यपैति रुचिर्मनाक् प्रभवति तथाऽप्येषा पुंसो विधातुमधीरताम् ॥ २६ ॥ परमेश्वरस्य । अभिभवः-तिरोहितप्रकाशत्वम्, अयमाशयः—यथाऽन्धकारः सूर्यं तिरोभावयति-स्वरूपाच्युतावपि प्रच्छन्नतेजसं विदधाति, तथैवाविद्यापि परमेश्वरस्य स्वरूपमविपाद्यापि बाह्य प्रकाशं तिरोभावयतीति । अत्र प्राप्तिर्नाम मुखसन्धेः पञ्चमङ्गोक्त तल्लक्षण यथा—'अर्थानामानुकूल्येन सुखाप्तिः प्राप्तिरिष्यते' इति । अविचारसिद्धा-यावदविचारंकवस्थिता, विचारे जाते मायासम्बन्धानादिदं विशेषणम् । वेश्याविलासिनी-वारवनिता । वारवनिता अपि विचारदृष्टयाऽरम- णीयत्वेन तदौपम्यम् । असतः-कृत्रिमान्, अविद्यमानाँश्च । वेश्या हि कृत्रिमान् भावान् प्रणयसूचकांश्चेष्टाविशेषान्प्रकाशयति मायापि असतः अत्यन्तासतो गगन- कमलिनीकल्पान् पदार्थान् प्रदर्शयतीति परमार्थः । परपुरुषम्-स्वपतिभिन्नं पुमां- सम् , परमुत्कृष्टं पुरुषं परमेश्वरमिति च, तत्राद्योऽर्थो वेश्यापक्षे चरमश्च मायापक्ष इति विवेकः । स्फटिकमणिवदिति० स्फटिकमणिवद् भास्वान् प्रकाशशाली देवः परमेश्वरः ( प्रपञ्चात्मना क्रीडनप्रवृत्ततया देवपदम् ) अनया प्रत्यक्षप्रभावया अनार्यया तुच्छ- स्वभावतया नीचतया असङ्गतविक्रियः अनुपपद्यमानविकारोऽपि प्रगाढम् भृशा कामपि अनिर्वाच्याम् विकृतिम् उपरकतारूपाम् विक्रियाम् नीतः प्रापितः । तदुप- श्लेषात् मायासंसर्गवशात् अस्य परात्मनः मनागपि ईषदपि रुचिः स्वरवरूप- प्रकाशः न खलु अपैति दूरीभवति, ( यद्यप्येवं ) तथापि एषा माया पुंसः परमेश्व- रस्य अधीरताम् स्वरूपच्युतिलक्षणाम् दशाम् विधातुम् प्रभवति यतते, स्फटिकमणि- राजा—प्रिये, अविचारसिद्धा यह माया वेश्या की तरह अवत्तमान भावोंको प्रदर्शित करके परपुरुषको छला करती है, देखो— स्फटिक मणिकी तरह भास्वर ये परमेश्वर इस अभागी अविद्याके द्वारा अविक्रिय होनेपर भी विक्रियाको प्राप्त कराये जाते हैं, अविद्यासम्पर्क होनेपर भी परमेश्वरकी स्वाभाविक रुचि नष्ट नहीं होने पाती, फिर भी यह अविद्या पुरुषको अधीर कर देती है ॥ २६ ॥ ३ प्र० च०