प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 52, कुल 274 में से
संदर्भ में पढ़ें३४ प्रबोधचन्द्रोदयम् मतिः—आर्यपुत्र, किं पुनः कारणं येन सा तथोदारचरितं दुर्विदग्धा प्रतारयति । ( अज्जउत्त, किं पुणो कारणं जेण सा तथा उदारवरिदं दुव्विदग्धा प्रतारोदि ) राजा—न खलु प्रयोजनं कारणं वा विलोक्य माया प्रवर्तते । स्वभावः खल्वसौ स्त्रीपिशाचीनाम् । पश्य— संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । यथा जपाकुसुमसंनिधानात् रक्तोऽपि स्वभाविकं शैत्यं न जहाति तथा परमेश्वरोऽपि मायामन्त्रध्वशात्कर्तृत्वादिरूपरूपितोऽपि स्वरूपान्न व्यवते, तथाप्यस्या मायायाः प्रयासो न विरमति, वैफल्येऽपि प्रवृत्तिरस्या न दूरीभवति, तदियमतिदुरन्तेति भावः । परमेश्वरस्य देवत्वं क्रीडनप्रवृत्तिमुपलक्ष्योक्तं तत्र च 'तदैक्षत बहुस्यां प्रजाये- ये'ति श्रुतिः प्रमाणम् । असङ्गतविक्रियः' इत्युक्त्या यथा स्फटिके नोपाधिवर्णस्य कदापि सङ्क्रान्तेः सम्भवस्तथाऽत्रापि नोपरागसम्भावनेति प्रतिपाद्यते । तदेव प्रदर्श- यितुमुक्तं—'न खलु तदुपश्लेषा'दिति । पूर्वोक्तमेव वृत्तम् ॥ २६ ॥ अत्र समाधानं नाम मुखसन्धेः सप्तममङ्गं प्रदर्शितं, 'स्फटिकमणिवद्भास्वान् देवः' इत्यनेन बीजानुसन्धानात् , तथा च तल्लक्षणम्—'यद्वीजस्यानुसन्धानं तत्स- माधानमित्यते' इति । उदारचरितम्-महोत्त्वस्वभावम् । दुर्विदग्धा-धूर्त्ता । प्रयोजनम्—फलं, प्रवृत्त्युद्देश्यं कार्यं वा । कारणम्—प्रवृत्तिहेतुभूतम् । यथा पयसः प्रसरणं स्वभावस्तन्न न कस्यापि फलस्य कारणस्य वाऽपेक्षा तथा मायाया अपि बन्धनं स्वभाव इति । स्त्रिय एव पिशाच्यः स्त्रीपिशाच्यस्तासाम् स्त्रीपिशाची- नाम् , अत्र स्त्रीणां पिशाचीत्वोक्तिस्तासां निष्कारणपरोपतापक्त्वदुस्सयजत्वाद्विख्योत- नाय । स्वभावस्याकारणजन्यतया तत्कारणगवेषणं वृथेति भावः । नमोहयन्तीति० सम्मोहयन्ति-मोहयुक्तं कुर्वन्ति, मदयन्ति-अभिमानमुत्पाद- यन्ति, विडम्बयन्ति-उपहसन्ति, निर्भर्त्सयन्ति-ताडयन्ति, रमयन्ति-प्रमोदयन्ति, मति—क्या कारण है कि वह अभागी अविद्या उस प्रकार उदारचरित, पुरुषको भी धोखेमें डाल देती है ? राजा—माया किसी कारण वा प्रयोजनको देखकर माया नहीं प्रवृत्त होती है, वह उन स्त्रीपिशाचियोंका स्वभाव ही है । देखो— मोहित करती हैं, मदयुक्त बनाती हैं, धिक्कारती हैं, खुश करती हैं, तक़लीफ देती हैं,