भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 53, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 53

प्रथमोऽङ्कः ३५ एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ २७ ॥ अस्ति चापरमपि कारणम् । मतिः—आर्यपुत्र, किं नाम तत्कारणम् ? (अज्जउत्त, किं णाम तक्कारणं ? ) राजा—एवमनया दुराचारया विचिन्तितं यदहं तावद्गतयौवना वर्षी- यसी । अयं पुराणपुरुषः स्वभावादेव विषयरसविमुखः । ततः स्वतनयमेव रमेश्वरे पदे निवेशयामीति, तमेव मातुरभिप्रायमासाद्य नितान्ततत्प्र- सन्नतया तद्रूपतामिवापन्नेन मनसा नवद्वाराणि पुराणि रचयित्वा । सादयन्ति-खेदयन्ति एता वामनयनाः सुन्दरदृशः नराणां पुरुषाणां सदयं दयायुतं यं प्रविश्य वञ्चनया स्वाधीनभावं नीत्वा किन्न नाम न समाचरन्ति सर्वमकार्यं र्यं च विदधतीत्यर्थः । अत्र स्त्रीसामान्यस्य पुरुषवशीकारपूर्वकाकार्यकृतिकुशलता- नेपादनद्वारा मायायाः परमेश्वरवशीकारपूर्वकं तद्बन्धनं समर्थितं भवतीति ध्यम् । वसन्ततिलकं वृत्तम् ॥ २७ ॥ अत्र विधानं नाम मुखसन्धेरष्टममङ्गं प्रतिपादितम् , तल्लक्षणं यथा-‘सुखदुःखकरं द्विधानं परिकीर्त्तितम्’ इति । अनया-मायया । दुराचारया-दुष्टचरित्रया । विचि- तम्-तर्कितम् । गतयौवना-पुरुषप्रेमनिदानभूतयौवनशून्या, गतावस्था वा, रापि सर्वविधावस्थारहिताऽनादित्वादिति बोध्यम् । वर्षीयसी-अतिवृद्धा, पुरुष- रात्मा, ( अयं पुरुषः परमेश्वरः ) पुराणपुरुषः-वृद्धः पुमान् विषयरसविमुखः- यिकसुखभोगविरक्तः । तदेवं दम्पत्योर्वार्धक्यं जातमित्यावेदितम् । स्वतनयम्- पुत्रं मनोनामकम् । पारमेश्वरे पदे-जगत्कर्तृत्वनियन्तृत्वादिरूपे परमेश्वरकर्त्तव्ये । वेशयामि-स्थापयामि । अन्यापि वर्षीयसी वृद्धपतिश्च चतुरा वनिता स्वतनयं कार्याधिकारे निवेशयति तदनुरूपमनया मायया चिन्तितमित्यर्थः । अत्र चिन्ति- तँत्यस्य निवेशयामीत्यन्तवाक्यार्थः कर्म । तम्—पूर्वोक्तम् । मातुः—जनिकाया प्रायाः । अभिप्रायमासाद्य-इच्छामवेत्य । नितान्तप्रत्यासन्नतया-सततसन्निहित- यमे प्रवेश करके स्त्रियाँ पुरुषोंका क्या नही कर देती है ? ॥ २७ ॥ और भी कारण है । मति—आर्यपुत्र, वह क्या कारण है ? राजा—इस दुष्टा मायाने सोचा कि मै गतयौवना वृद्धा हुई, ये पुराण पुरुष भी ावतः विषय विमुख हो गये हैं, इसलिये अपने पुत्रको ही पारमेश्वर के पदपर बिठा दूं । ने अपनी माता अविद्याके इस अभिप्रायको समझ कर सतत आत्मसमीपवर्ती रहनेके ण उसीका रूप बनाकर नवद्वार यह शरीररूप पुर बना डाला ।