प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 53, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ३५ एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ २७ ॥ अस्ति चापरमपि कारणम् । मतिः—आर्यपुत्र, किं नाम तत्कारणम् ? (अज्जउत्त, किं णाम तक्कारणं ? ) राजा—एवमनया दुराचारया विचिन्तितं यदहं तावद्गतयौवना वर्षी- यसी । अयं पुराणपुरुषः स्वभावादेव विषयरसविमुखः । ततः स्वतनयमेव रमेश्वरे पदे निवेशयामीति, तमेव मातुरभिप्रायमासाद्य नितान्ततत्प्र- सन्नतया तद्रूपतामिवापन्नेन मनसा नवद्वाराणि पुराणि रचयित्वा । सादयन्ति-खेदयन्ति एता वामनयनाः सुन्दरदृशः नराणां पुरुषाणां सदयं दयायुतं यं प्रविश्य वञ्चनया स्वाधीनभावं नीत्वा किन्न नाम न समाचरन्ति सर्वमकार्यं र्यं च विदधतीत्यर्थः । अत्र स्त्रीसामान्यस्य पुरुषवशीकारपूर्वकाकार्यकृतिकुशलता- नेपादनद्वारा मायायाः परमेश्वरवशीकारपूर्वकं तद्बन्धनं समर्थितं भवतीति ध्यम् । वसन्ततिलकं वृत्तम् ॥ २७ ॥ अत्र विधानं नाम मुखसन्धेरष्टममङ्गं प्रतिपादितम् , तल्लक्षणं यथा-‘सुखदुःखकरं द्विधानं परिकीर्त्तितम्’ इति । अनया-मायया । दुराचारया-दुष्टचरित्रया । विचि- तम्-तर्कितम् । गतयौवना-पुरुषप्रेमनिदानभूतयौवनशून्या, गतावस्था वा, रापि सर्वविधावस्थारहिताऽनादित्वादिति बोध्यम् । वर्षीयसी-अतिवृद्धा, पुरुष- रात्मा, ( अयं पुरुषः परमेश्वरः ) पुराणपुरुषः-वृद्धः पुमान् विषयरसविमुखः- यिकसुखभोगविरक्तः । तदेवं दम्पत्योर्वार्धक्यं जातमित्यावेदितम् । स्वतनयम्- पुत्रं मनोनामकम् । पारमेश्वरे पदे-जगत्कर्तृत्वनियन्तृत्वादिरूपे परमेश्वरकर्त्तव्ये । वेशयामि-स्थापयामि । अन्यापि वर्षीयसी वृद्धपतिश्च चतुरा वनिता स्वतनयं कार्याधिकारे निवेशयति तदनुरूपमनया मायया चिन्तितमित्यर्थः । अत्र चिन्ति- तँत्यस्य निवेशयामीत्यन्तवाक्यार्थः कर्म । तम्—पूर्वोक्तम् । मातुः—जनिकाया प्रायाः । अभिप्रायमासाद्य-इच्छामवेत्य । नितान्तप्रत्यासन्नतया-सततसन्निहित- यमे प्रवेश करके स्त्रियाँ पुरुषोंका क्या नही कर देती है ? ॥ २७ ॥ और भी कारण है । मति—आर्यपुत्र, वह क्या कारण है ? राजा—इस दुष्टा मायाने सोचा कि मै गतयौवना वृद्धा हुई, ये पुराण पुरुष भी ावतः विषय विमुख हो गये हैं, इसलिये अपने पुत्रको ही पारमेश्वर के पदपर बिठा दूं । ने अपनी माता अविद्याके इस अभिप्रायको समझ कर सतत आत्मसमीपवर्ती रहनेके ण उसीका रूप बनाकर नवद्वार यह शरीररूप पुर बना डाला ।