प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 54, कुल 274 में से
संदर्भ में पढ़ें३६ प्रबोधचन्द्रोदयम् एकोऽपि बहुधा तेषु विच्छिद्येव निवेशितः । स्वचेष्टितमथो तस्मिन्विदधाति मणाविव ॥ २८ ॥ मतिः- (विचिन्त्य) आर्यपुत्र, यादृशी माता पुत्रोऽपि तादृश एव जातः । (अज्जउत्त, जादिसी मादा पुत्तको वि तादिसो जेव्व जादो ।) राजा-ततोऽसावहंकारे चित्तस्य ज्येष्ठपुत्रेण नप्त्रा परिष्वक्तः । ततश्चासावीश्वरः । तया । तद्रूपताम्-परमेश्वरसादृश्यम् । आपन्नेन-प्राप्तेन । अन्योऽपि मात्रा लालितः कुमारः पित्रा यौवराज्येऽधिक्रियमाणः सन् सततं तन्न्यासङ्गः सन् तद्विधेयानि कार्याणि करोति, तदनुकृत्यायं व्यवहारारोपः । नवद्वाराणि-नवसङ्ख्यकद्वारवन्ति, नवीनतमप्रवेशमार्गयुतानि । अत्र तत्तदिन्द्रियच्छिद्रयुक्तस्य देहस्यैव पुरात्मना रूपणं, देहे हि नवच्छिद्राणि मन्यन्ते नासाकर्णादीनि । एकोऽपीति० तेषु देहरूपपुरेषु एकोऽपि वस्तुतोऽभिन्नोऽपि परमात्मा विच्छिद्य पृथग्भावमापाद्य इव बहुधा नानाभावेन निवेशितः स्थापितः, बिम्बप्रतिबिम्बभावेन व्यवस्थापितः, यथैकस्यापि सूर्यस्य रजतपात्रावस्थापितजलशते शतं प्रतिबिम्बानि भवन्ति तद्वदात्मनोऽप्येकस्यैव तत्तद्देहेषु प्रवेश इति बोध्यम् । अथो अनन्तरं तस्मिन् देवे स्वचेष्टितं मनसा क्रियमाणं कर्तृत्वादिरूपम् मणौ इव विदधाति करोति । यथा जपादिरुपाधिः स्वधर्मं रक्तत्वादिकं मणौ प्रतिभासयति तद्वन्मनोऽपि स्वधर्मं कर्तृ- त्वभोक्तृत्वादिकं परमात्मरूपे पुरुषे प्रतिभासयतीति परपादद्वयार्थः ॥ २८ ॥ यादृशी-वञ्चनादि यावद् गुणोपेता । माता-अत्र माया । तादृशः-मातृगुणसजा- तीयगुणोपेतः । जातः-पुत्रोऽत्र मनोरूपः । ततः-पुरप्रवेशानन्तरम् । असौ-पुरुषः । चित्तस्य-बुद्धितत्त्वस्य । ज्येष्ठपुत्रेण- प्रधानेन सुतेन । नप्त्रा-पुत्रपुत्रेण । पुरुषस्य पुत्रो मनोरूपस्तत्पुत्रश्चाहङ्कार इति तत्र नप्तृत्वारोपः । और उन द्वारोंमें एक होकर भी भिन्न-भिन्न रूप मे निविष्ट हो गया है और जैसे मणिमे भिन्न-भिन्न तरहके प्रतिबिम्ब होते है उसी तरह भिन्न-भिन्न तरहकी चेष्टाये किया करती है ॥ २८ ॥ मति-आर्यपुत्र, जैसी माँ थी, बेटा भी ठीक वैसा ही निकला। राजा-अहङ्कार चित्तका बडा लडका है, उससे मिलने पर आत्मा ईश्वर कहलाने लगा ।