प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 68, कुल 274 में से
संदर्भ में पढ़ें५० प्रबोधचन्द्रोदयम् चूडाग्रकर्णकटिपाणिविराजमान- दर्भाङ्कुरः स्फुरति मूर्त इवैष दम्भः ॥ ६ ॥ भवतुपसर्पाम्येनम् । (उपसृत्य) कल्याणं भवतु भवताम् । (दम्भो हुंकारेण निवारयति) (प्रविशति बटुः) बटुः—(ससंभ्रमम्) ब्रह्मन्, दूरत एव स्थीयताम् । यतः पादौ प्रक्षाल्य एतदाश्रमपदं प्रवेष्टव्यम् । अहङ्कारः—(सक्रोधम्) आः पाप, तुरुष्कदेशं प्राप्ताः स्मः यत्र श्रोत्रि- यानतिथीनासनपाद्यादिभिरपि गृहिणो नोपतिष्ठन्ति । चिह्नं धारयन्नित्यर्थः । चूडाग्रे शिरोदेशे कर्णयोः श्रवणयोः कटौ कटिप्रदेशे पाण्योर्ह- स्तयोश्च विराजमानः शोभमानो दर्भाङ्कुरो नवकुशो यस्य तादृशश्च मूर्त्तः शरीरधारी दम्भ इव एषः पुरो दृश्यमानो जनः स्फुरति प्रकाशते । तं तं वञ्चनाप्रकारं बिभ्रदयं जनो मूर्त्तो दम्भ इव राजत इत्यर्थः । वसन्ततिलकं वृत्तम् ॥ ६ ॥ उपसर्पामि-समीपं गच्छामि । हुङ्कारेणेति० सर्वंनमस्याथ मह्यमाशिषः प्रयुञ्जानः कोऽपि महापराधीति तस्मै हुङ्कारप्रयोगः । बटुः-दम्भशिष्यः । ब्रह्मन्निति सोपहासं सम्बोधनं, वास्तविकायां तु ब्रह्मत्वबुद्धौ दूरतः स्थीयतामिति कथनमनवसरप्राप्तं स्यादिति बोध्यम् । तुरुष्कदेशम्-यवनजनपदम् । श्रोत्रियान्-वेदाध्यायिनः । अतिथीन्-अभ्याग- तान् । आसनपाद्यादिभिः-आसनं विष्टरः, पाद्यं पादार्थमुदकम्, तदादिभिः तत्प्र- भृतिस्तत्प्रथमैरुपचारैः । गृहिणः-गृहस्थाः । नोपतिष्ठन्ति-न सत्कुर्वन्ति । नूनं तुरु- ष्कदेशोऽयं यन्नैतावत्यप्यतिथिसपर्या गृहस्थैर्न क्रियते इति भावः । लगाये तथा शिखा, कान, कटि देश और हाथोंमे कुश लिये हुये यह तो शरीरधारी दम्भ-सा लग रहा है ॥ ६ ॥ अस्तु—मै इसके पास जाता हू । (समीप जाकर) जय हो । (दम्भ हुंकार द्वारा वारण करता है) (बटुका प्रवेश) बटु—(घबडाहटके साथ) महाराज, अलग ही रहना, क्योंकि पाँव धोकरके इस आश्रममे प्रवेश करनेका नियम है । अहङ्कार—(क्रोधसे) आः पाप, क्या हम तुर्कोंके देशमे पहुंच गये है जहाँ पर श्रोत्रिय अतिथियोंको आसन पाद्य आदि से भी सत्कृत नही किया जाता है ।