प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 69, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ५१ दम्भः—( हस्तसंज्ञया समाश्वासयति ) बटुः—एवमाराध्यपादा आज्ञापयन्ति दूरदेशादागतस्यार्यस्य कुलशी- लादिकं न सम्यगस्माकं विदितम् । अहंकारः—आः कथमस्माकमपि कुलशीलादिकमिदानीं परीक्षित- व्यम् । श्रूयताम्— गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी भूरिश्रेष्ठकनाम धाम परमं तत्रोत्तमो नः पिता। तत्पुत्राश्च महाकुला न विदिताः कस्यात्र तेषामपि प्रज्ञाशीलविवेकधैर्यविनयाचारैरहं चोत्तमः ॥ ७ ॥ आराध्यपादाः—मम गुरवो दम्भाः । अज्ञातकुलस्य भवतः कथं सत्कारो विधी- यतामिति प्रतीक्षैवास्माकं सत्कारप्रवृत्तौ विलम्बे कारणमिति तदुक्तेराशयः । कुलम्-वंशः । शीलम्-स्वभावः । परीक्षितव्यम्—कोटिनिर्धारणपूर्वकं प्रश्नादिना निर्धारणीयम् । गौडमिति० अनुत्तमम् सर्वोत्कृष्टम् गौडम् राष्ट्रम् देशः, तत्र गौडे अपि निरुपमा असमाना राढा तदभिख्यया प्रथमाना पुरी नगरी, तत्र राढा पुर्याम् अपि भूरिश्रेष्ठ- कनाम तदभिधानम् परमम् उत्कृष्टम् धाम गृहम्, तत्र धामनि उत्तमः सर्वश्रेष्ठः नः पिता जनयिता । तत्पुत्राः तस्य मम पितुः सुताः महाकुलाः । सद्वंशप्रसूताः ( वयम् सर्वे भ्रातरः ) अत्र वाराणस्यां कस्य न विदिताः ज्ञाताः, तेषाम् अस्माकं सर्वेषां सोदराणामपि मध्ये च प्रज्ञाशीलविवेकधैर्यविनयाचारैः बुद्धिस्वभावज्ञान- गम्भीरत्वनम्रताचरित्रचातुर्यैः अहम् अहङ्कारः उत्तमः श्रेष्ठः अस्मीति शेषः । यस्य मम विश्वविदिते गौडराष्ट्रे समुद्भवः, तद्राष्ट्रालङ्कारभावं भजन्ती राढापुरी वसतिः, दम्भ—( हाथके इशारेसे आश्वासन देता है ) बटु—गुरुदेवकी आज्ञा होती है कि दूर देशसे आये हुए आपके कुल तथा शील हम ठीकसे नहीं जान सके हैं । अहङ्कार—( क्रोधसे ) आः, क्या हमारे कुल-शील की भी अब परीक्षा करेंगे ? सुनलें—गौड़ एक अनुपम देश है, उसमे निरुपमेय राढा नामकी नगरी है, जहाँ भूरिश्रेष्ठक वास करते हैं । उन भूरिश्रेष्ठकोंमें उत्तम हमारे पिता हैं । महाकुलप्रसूत उनके पुत्र किसे नहीं विदित हैं, उनमें भी प्रज्ञा, शील, विवेक, धीरता, विनय और आचारसे मै उत्तम कहा जाता हूँ ॥ ७ ॥