भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 77, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 77

[Page Header] द्वितीयोऽङ्कः ५६


कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् ॥१३॥ दम्भः—सत्यमेतत्तथापि नैतत्कामक्रोधाभिभूतानां सम्भाव्यते । तथा ह्युदाहरन्ति तैर्थिकाः— 'यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च तीर्थं च स तीर्थफलमश्नुते ॥ १४ ॥' इति ।

विजयी शिवः अन्तकाले प्राणप्रयाणसमये भवभयेन सांसारिकभीत्या कातराणां सभयानां तारकम् उद्धरणसमर्थम् प्रबोधम् । इह वाराणस्याम् कथयति उपदिशति । इह काश्यां कारुणिकः शिवो ब्रह्मज्ञानवञ्चितेभ्यो जनेभ्यस्तदन्तकाले मुक्तिप्रदं तारक- मन्त्रमुपदिशन्ति येन ते सद्य एव मुक्ता भवन्तीति भावः । तथा चोक्तम्—'मुमूर्षो- र्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यति तं मन्त्र समुक्तो भविता शिवः' 'मुमूर्षोर्मणिकर्ण्यन्तरर्थोदकनिवासिनः । अहं दिशामि ते मन्त्र तारकं ब्रह्मसञ्ज्ञकम्' । भगवानन्तकालेऽत्र तारकस्योपदेशतः, अविमुक्तस्थितान् जन्तून्मोचयेन्नात्र संशयः । इति । काश्यां मोक्षस्य सर्वसाधारणलभ्यतया महामोहचिकीर्षितो विवेकोपरोधो न सिद्ध्यति तदशक्यप्रतीकार एवात्र विवेकवास इति भावः । पुष्पिताग्रावृत्तमिदम् 'अयुजि नयुगरेफतो जकारो युजि च नजौ जरजाश्च पुष्पिताग्रा' इति तल्लक्षणात् ॥ एतत्—सर्वेषामेव काशीवासिनां भगवता चरमसमये तारकोपदेशतो मोच्य- मानत्वम् । यस्येति० यस्य जनस्य पादौ चरणौ सुसंयतौ निषिद्धसञ्चारपराङ्मुखौ, हस्तौ च सुसंयतौ अप्रतिग्रहौ, मनश्च सुसंयतम् परद्वेषाकाम्यकामनादिनिवृत्तम्, विद्या सुसंयता परप्रतारणादिविमुखी, तपः व्रतादिसुसंयतम् दम्भेनासंस्पृष्टम्, तीर्थम् योनिरूपस्थेन्द्रियम् सुसयतम् अनिषिद्धगामि, सतीर्थफलम् काशीरूपतीर्थलभ्य- मोक्षरूपं फलमश्नुते प्राप्नोति । सामान्यतः काशीक्षेत्रे मृतानां मोक्षमुपदिशतां शास्त्राणां विशेषशास्त्रेणानेनैकवाक्यतयाऽर्थसङ्कोचे काश्यामपि संयतानामेव तीर्थ- फलाधिगम इति नियमितं बोध्यम् । अत्र सुसंयतशब्दस्य विभक्तिलिङ्गयोर्विपरिणा- मेन सर्वत्रान्वयो बोध्यः । उक्तश्चायमर्थो विस्तारेण काशीखण्डे उत्तरभागे षण्ण-


बचानेके लिये उन्हे तारक मन्त्रका उपदेश देते है ॥ १३ ॥ दम्भ—यह ठीक है, फिर भी काम और क्रोधसे अभिभूत लोगों के विषयमें ऐसी स भावना नहीं है । शास्त्रकारों ने कहा है— जिस व्यक्तिके हाथ-पैर तथा मन संयत है और विद्या तथा तप भी ठिकाने हैं वही व्यक्ति तीर्थफल प्राप्त करता है ॥ १४ ॥

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक) · पृष्ठ 77, कुल 274 में से · BharatKosha