प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 81, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ६३ हंहो पश्यत तत्त्वतो यदि पुनश्छिन्नादितो वर्ष्मणो दृष्टः किं परिणामरूपितचितेर्जीवः पृथक्कैरपि ॥ १७ ॥ अपि च न केवलं जगदात्मैव तावदमीभिर्वञ्च्यते । तथाहि— तुल्यत्वे वपुषां मुखाद्यवयवैर्वर्णक्रमः कीदृशो योषेयं वसु चापरस्य तदमुं भेदं न विद्मो वयम् । न तु वस्तुतत्त्वमित्याशयः । हंहो इदं साहङ्कारं संबोधनम् , यथा जयदेवीये चन्द्रालोके हंहो चिन्मयचित्तचन्द्रमणय इत्यत्र । तत्त्वतः पश्यत तत्त्वविचारणां कुरुत, छिन्नात् छेदनकर्मतां गमितात् इतः अस्मात् वर्ष्मणः देहात् किम् परिणामरूपित- चितेः। परिणामेन पृथिव्यादिरूपान्तरतापत्त्या रूपिता उत्पादिता चितिः चैतन्यं यस्य ततः देहात् पृथक् भिन्नः जीवः सचेतन आत्मा किम् कैरपि कैश्चित् भवद्भिः यदि पुनर्हष्टः प्रत्यक्षीकृतः । पृथिव्यादिभूतान्येव संहतानि सन्ति संयोगविशेषमहिम्ना चेतयन्ते यथा क्रमुकादीनां मिलितानां रागजनकत्वं न तु तदतिरिक्तः कोऽप्यस्ति चेतन आत्मा, यदि सोऽभविष्यदवश्यमतो देहाच्छिद्यमानान्निर्यास्यन्केनाप्यद्रक्ष्यत न चादृश्यतातो नास्ति तादृश आत्माऽथापि तदस्तित्वमुच्चैर्घोषयन्तो वेदप्रामा- ण्याभ्युपगन्तारो वैदिका यदस्मान्सत्यवचो निन्दन्ति तत्तेषां प्रचारमात्रमिति सारांशः । आस्तिकनास्तिकशब्दौ 'अस्तिनास्तिदिष्टन्मतिः' इति पाणिनीयसूत्रेण ठकि सिध्यतः । अस्तिदिष्टमिति मतिर्यस्य स आस्तिकः, नास्तिदिष्टमिति मतिर्यस्य स नास्तिकः । 'शरीरं वर्ष्म विग्रहः' इत्यमरः । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ न केवलं जगत्-वञ्च्यत इति संबध्यते, न हि केवलस्य लोकस्य प्रतारणमेभि- रास्तिकैः क्रियते, किन्तु स्वात्माऽपि प्रतार्यते, तादृशाभिप्रायधारणेनोपन्नतत्तद्भोग- पराङ्मुखताऽऽपादनात् । तथाहि-आत्मापि वञ्च्यत इत्युक्तौ प्रमाणं दर्शयतीत्यर्थः । तुल्यत्व इति० मुखाद्यवयवैः आस्यनासादिभिः शरीरावयवविशेषैः तुल्यत्वे साधारण्ये सत्यपि वर्णक्रमः कीदृशः शूद्रवैश्यक्षत्रियब्राह्मणादिसंज्ञया जातिव्यवस्था कीदृशी किम्मूला च । ब्राह्मणादीनां शूद्राणाञ्च करपादाद्यवयवसाम्येऽपि जाति- व्यवस्थाकारणं नावधार्यत इत्यर्थः । इयम् परस्य योषा वनिता इदं परस्य धनम् , स्वम् , तत् तत्र वयम् चार्वाकमतानुवर्तिनोऽमुम् अन्यैरास्थीयमानम् भेदं पृथग्भावं वृथा ही नास्तिकोंकी निन्दा की है। जरा देखिये तो, क्या खण्डित होनेवाले इस शरीरसे, जो सङ्घातभूत चैतन्य है, क्या पृथक् जीवको किसीने देखा है ? ॥ १७ ॥ और केवल संसारको ही नही, अपनेको भी ये धूर्त्त ठगा करते हैं, क्योंकि— . सभीके मुखादि अवयव समान ही है फिर जात-पात क्या चीज है ? यह स्त्री तथा