प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 96, कुल 274 में से
संदर्भ में पढ़ें५८ प्रबोधचन्द्रोदयम् ( पुरुषं प्रति वदति ) जाल्म, गच्छ । कामं सत्वरमुपेत्यादेशमस्माकं प्रतिपादय । तथा दुराशयो ऽधर्म इत्यस्माभिरवगतम् । तदस्मिन्मुहूर्तमपि न विश्वसितव्यम् । दृढं बद्ध्वा धारयितव्य इति । पुरुषः- यद्देव आज्ञापयति । ( जं देवो आणवेदि ) ( इति निष्क्रान्तः ) महामोहः-( स्वगतं विचिन्त्य ) शान्तेः कोऽभ्युपायः । अथवा अलमुपायान्तरेण । क्रोधलोभावेव तावदत्र पर्याप्तौ । ( प्रकाशम् ) कः कोऽत्र भोः । ( प्रविश्य दौवारिकः ) दौवारिकः- आज्ञापयतु देवः । जाल्म-मूर्ख, असमीक्ष्यकारिन्, तथात्वं चास्य स्थितिमविचार्यैवागमनात् ल्पनीयम् । सत्वरम्-शीघ्रम् । उपेत्य-प्राप्य । प्रतिपादय-कथय । दुराशयः-दुष्टाभिप्रायः । धर्मस्य वैराग्यो- त्पादकतया कामविमुखत्वेन दुष्टत्वमुक्तम् । अस्मिन्-धर्मे । मुहूर्त्तम्-क्षणम् । दृढं द्ध्वा-निपुणं संयम्य । बन्धनञ्च धर्मस्य काम्यानि फलान्युद्दिश्य विधीयमानत्वमेव, थाकरणेन धर्मो वैराग्यादिभिः कृतमुपजापं न मन्येतेति भावः । शान्तेः कोऽभ्यु- पायः-शान्तेर्निराकरणाय कीदृशः प्रयत्नः करणीय इति भावः । उपायान्तरेण- न्येन प्रयासेन, पर्याप्तौ-दक्षौ । ( पुरुषसे कहता है ) मूर्ख, जाओ । जल्दी जाकर हमारा आदेश सुना दो । हमने जान लिया कि धर्म दुष्ट उस पर एक क्षणके लिये भी विश्वास मत करना । उसे कसकर बांधे रहो । पुरुष-महाराजकी जैसी आज्ञा । ( जाता है ) महामोह-( स्वगत, सोचकर ) शान्तिका क्या प्रतीकार ? अथवा-प्रतीकारकी चिन्ता है, क्रोध लोभ ये दोनों इस कामके लिये काफी है । ( प्रकाश ) कोई है ? ( दौवारिकका प्रवेश ) दौवारिक-महाराज आदेश करें ।