प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 95, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ५७ महामोहः—( सक्रोधम् ) आः किमेवमतिमुग्धौ शान्तेरपि बिभितः । कामादिषु प्रतिपक्षेषु कुतोऽस्याः संभवः । तथाहि— धाता विश्वविसृष्टिमात्रनिरतो देवोऽपि गौरीभुजा- श्लेषानन्दविघूर्णमाननयनो दक्षाध्वरध्वंसनः । दैत्यारिः कमलाकपोलमकरीलेखाङ्कितोरःस्थलः शेतेऽब्धावितरेषु जन्तुषु पुनः का नाम शान्तेः कथा ॥२८॥ सक्रोधम्-क्रोधश्चात्र मदमानयोरतिलघुकार्येऽपि व्यग्रतामालोक्य जातो बोध्यः । अतिमुग्धौ-अतिशयेन व्यामोहवन्तौ । बिभीतः = भयं कुरुतः । कामादिषु- कामक्रोधलोभमदमात्सर्यप्रभृतिषु । प्रतिपक्षेषु-विरोधिषु सत्सु । अस्याः-शान्तेः ( इन्द्रियोपशमरूपायाः) । कुतः सम्भवः नास्ति सम्भावना । सर्वतो निरुद्धेषु मार्गेषु कुत इन्द्रियशमरूपा शान्तिरुदेतुमीशेति तात्पर्यम् । धातेति० धाता ब्रह्मा विश्वस्य जगतः विसृष्टिमात्रे केवलायां विविधायां सृष्टि- प्रक्रियायां निरतः एकान्तभावेन संलग्नः, देवः दक्षाध्वरध्वंसनः दक्षयज्ञविनाशकः शिवः अपि गौर्याः पार्वत्याः भुजाभ्याम् बाहुभ्याम् य अश्लेषः आलिङ्गनं तेन य आनन्दः प्रमोदस्ततो विघूर्णमाननयनः अतिमत्तदृष्टिः, दैत्यारिः विष्णुः कमलाकपो- लमकर्याः लक्ष्मीगण्डस्थलवर्त्तिमस्याकृतिकचन्दनचर्चायाः लेखया रेखया अङ्कित- मुरःस्थलं वक्षोदेशो यस्य तादृशः सन् अब्धौ समुद्रे शेते निद्राति, ( तदेवं ब्रह्म- विष्णुशिवेषु कामाद्यधीनेषु ) पुनः इतरेषु साधारणजनेषु का नाम शान्तेः कथा ? कीदृशी शान्तिवार्त्ता ? विधातुर्विश्वनिर्माणव्यग्रतया शान्तिर्नास्ति, शिवः पार्वती- दृढालिङ्गनजन्यसुखावेशआस्यन्नयनः सन् कामपर एव, विष्णुरपि प्रियां कमलां वक्षसि स्वापयित्वा तदीयकपोलवर्त्तिमकरीलेखया स्वमुरो लाञ्छयित्वा चाब्धौ निर्भरं निद्रातीति कामाविष्ट एव, तदेवं त्रिष्वपि प्रधानदेवेषु शान्तिमत्तसम्भावना- विरहितेषु साधारणजनेष्वन्येषु शान्तेः कीदृशी चर्चा, तदेवं शान्त्या अलीकोदयतया ततो बिभ्यतोर्मदमानयोर्मुग्धत्वं सुप्रतीतमिति भावः । शार्दूलविक्रीडितं वृत्तम् , लक्षणं प्रागुक्तम् ॥ २८ ॥ महामोह—(क्रोधसे) यह इतने भोले हैं कि शान्तिसे भी डरते हैं । जब काम विरोधमें है तो शान्ति कब संभव है । देखो— ब्रह्मा सृष्टि करनेमे लगे हैं, महादेवको पार्वती बाहुपाश के आलिङ्गनसे फुरसत नहीं मिलती, और विष्णु छातीसे लक्ष्मीको लगाकर समुद्रमें सो रहे है, और लोगोंमें शान्तिकी क्या बात ? ॥ २८ ॥