प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
द्वितीयोऽङ्कः ५७ महामोहः—( सक्रोधम् ) आः किमेवमतिमुग्धौ शान्तेरपि बिभितः । कामादिषु प्रतिपक्षेषु कुतोऽस्याः संभवः । तथाहि— धाता विश्वविसृष्टिमात्रनिरतो देवोऽपि गौरीभुजा- श्लेषानन्दविघूर्णमाननयनो दक्षाध्वरध्वंसनः । दैत्यारिः कमलाकपोलमकरीलेखाङ्कितोरःस्थलः शेतेऽब्धावितरेषु जन्तुषु पुनः का नाम शान्तेः कथा ॥२८॥ सक्रोधम्-क्रोधश्चात्र मदमानयोरतिलघुकार्येऽपि व्यग्रतामालोक्य जातो बोध्यः । अतिमुग्धौ-अतिशयेन व्यामोहवन्तौ । बिभीतः = भयं कुरुतः । कामादिषु- कामक्रोधलोभमदमात्सर्यप्रभृतिषु । प्रतिपक्षेषु-विरोधिषु सत्सु । अस्याः-शान्तेः ( इन्द्रियोपशमरूपायाः) । कुतः सम्भवः नास्ति सम्भावना । सर्वतो निरुद्धेषु मार्गेषु कुत इन्द्रियशमरूपा शान्तिरुदेतुमीशेति तात्पर्यम् । धातेति० धाता ब्रह्मा विश्वस्य जगतः विसृष्टिमात्रे केवलायां विविधायां सृष्टि- प्रक्रियायां निरतः एकान्तभावेन संलग्नः, देवः दक्षाध्वरध्वंसनः दक्षयज्ञविनाशकः शिवः अपि गौर्याः पार्वत्याः भुजाभ्याम् बाहुभ्याम् य अश्लेषः आलिङ्गनं तेन य आनन्दः प्रमोदस्ततो विघूर्णमाननयनः अतिमत्तदृष्टिः, दैत्यारिः विष्णुः कमलाकपो- लमकर्याः लक्ष्मीगण्डस्थलवर्त्तिमस्याकृतिकचन्दनचर्चायाः लेखया रेखया अङ्कित- मुरःस्थलं वक्षोदेशो यस्य तादृशः सन् अब्धौ समुद्रे शेते निद्राति, ( तदेवं ब्रह्म- विष्णुशिवेषु कामाद्यधीनेषु ) पुनः इतरेषु साधारणजनेषु का नाम शान्तेः कथा ? कीदृशी शान्तिवार्त्ता ? विधातुर्विश्वनिर्माणव्यग्रतया शान्तिर्नास्ति, शिवः पार्वती- दृढालिङ्गनजन्यसुखावेशआस्यन्नयनः सन् कामपर एव, विष्णुरपि प्रियां कमलां वक्षसि स्वापयित्वा तदीयकपोलवर्त्तिमकरीलेखया स्वमुरो लाञ्छयित्वा चाब्धौ निर्भरं निद्रातीति कामाविष्ट एव, तदेवं त्रिष्वपि प्रधानदेवेषु शान्तिमत्तसम्भावना- विरहितेषु साधारणजनेष्वन्येषु शान्तेः कीदृशी चर्चा, तदेवं शान्त्या अलीकोदयतया ततो बिभ्यतोर्मदमानयोर्मुग्धत्वं सुप्रतीतमिति भावः । शार्दूलविक्रीडितं वृत्तम् , लक्षणं प्रागुक्तम् ॥ २८ ॥ महामोह—(क्रोधसे) यह इतने भोले हैं कि शान्तिसे भी डरते हैं । जब काम विरोधमें है तो शान्ति कब संभव है । देखो— ब्रह्मा सृष्टि करनेमे लगे हैं, महादेवको पार्वती बाहुपाश के आलिङ्गनसे फुरसत नहीं मिलती, और विष्णु छातीसे लक्ष्मीको लगाकर समुद्रमें सो रहे है, और लोगोंमें शान्तिकी क्या बात ? ॥ २८ ॥
५८ प्रबोधचन्द्रोदयम् ( पुरुषं प्रति वदति ) जाल्म, गच्छ । कामं सत्वरमुपेत्यादेशमस्माकं प्रतिपादय । तथा दुराशयो ऽधर्म इत्यस्माभिरवगतम् । तदस्मिन्मुहूर्तमपि न विश्वसितव्यम् । दृढं बद्ध्वा धारयितव्य इति । पुरुषः- यद्देव आज्ञापयति । ( जं देवो आणवेदि ) ( इति निष्क्रान्तः ) महामोहः-( स्वगतं विचिन्त्य ) शान्तेः कोऽभ्युपायः । अथवा अलमुपायान्तरेण । क्रोधलोभावेव तावदत्र पर्याप्तौ । ( प्रकाशम् ) कः कोऽत्र भोः । ( प्रविश्य दौवारिकः ) दौवारिकः- आज्ञापयतु देवः । जाल्म-मूर्ख, असमीक्ष्यकारिन्, तथात्वं चास्य स्थितिमविचार्यैवागमनात् ल्पनीयम् । सत्वरम्-शीघ्रम् । उपेत्य-प्राप्य । प्रतिपादय-कथय । दुराशयः-दुष्टाभिप्रायः । धर्मस्य वैराग्यो- त्पादकतया कामविमुखत्वेन दुष्टत्वमुक्तम् । अस्मिन्-धर्मे । मुहूर्त्तम्-क्षणम् । दृढं द्ध्वा-निपुणं संयम्य । बन्धनञ्च धर्मस्य काम्यानि फलान्युद्दिश्य विधीयमानत्वमेव, थाकरणेन धर्मो वैराग्यादिभिः कृतमुपजापं न मन्येतेति भावः । शान्तेः कोऽभ्यु- पायः-शान्तेर्निराकरणाय कीदृशः प्रयत्नः करणीय इति भावः । उपायान्तरेण- न्येन प्रयासेन, पर्याप्तौ-दक्षौ । ( पुरुषसे कहता है ) मूर्ख, जाओ । जल्दी जाकर हमारा आदेश सुना दो । हमने जान लिया कि धर्म दुष्ट उस पर एक क्षणके लिये भी विश्वास मत करना । उसे कसकर बांधे रहो । पुरुष-महाराजकी जैसी आज्ञा । ( जाता है ) महामोह-( स्वगत, सोचकर ) शान्तिका क्या प्रतीकार ? अथवा-प्रतीकारकी चिन्ता है, क्रोध लोभ ये दोनों इस कामके लिये काफी है । ( प्रकाश ) कोई है ? ( दौवारिकका प्रवेश ) दौवारिक-महाराज आदेश करें ।
द्वितीयोऽङ्कः ७६ महामोहः—तावदाहूयतां क्रोधो लोभश्च । पुरुषः—यदाज्ञापयति देवः । ( जं आणवेदि देवो ) । ( इति निष्क्रान्तः ) ( ततः प्रविशति क्रोधो लोभश्च ) क्रोधः—श्रुतं मया यथा शान्तिश्रद्धाविष्णुभक्तयो महाराजेन प्रति- पक्षमाचरन्तीति । अहो, मयि जीवति कथमासामात्मनि निरपेक्षितं चेष्टितम् । तथाहि— अन्धीकरोमि भुवनं बधिरीकरोमि धीरं सचेतनमचेतनतां नयामि । कृत्यं न पश्यति न येन हितं शृणोति धीमानधीतमपि न प्रतिसंदधाति ॥ २६ ॥ आहूयताम्-आकार्य्ताम् । महाराजेन प्रतिपक्षम्-महाराजस्य महामोहस्य विरुद्धम् । मयि-क्रोधे । जीवति- प्राणान् धारयति । आसाम्-शान्तिश्रद्धाविष्णुभक्तीनाम् । आत्मनि निरपेक्षम्- स्वस्मिन्नपेक्षारहितम् । क्रोधसुपेत्य यदमूरित्थं प्रगल्भन्ते तद्भूषामात्मविनाशा- यैव जायेत, तदेवं स्वचिन्तारहितमिदं तासां चेष्टितमिति तात्पर्यम् । अन्धीकरोमीति० भुवनम् क्षमामण्डलम् अन्धीकरोमि अनन्धमन्धंकरोमि कर्त्त- व्याकर्त्तव्यविचाररूपदृष्टिशून्यं करोमीत्यर्थः । ( भुवनम् ) बधिरीकरोमि श्रुतिसाध- नेन्द्रियरहितं करोमि ( येन हितं न शृणुयात् ) सचेतनम् चेतनया सहितम् धीरम् मनस्विनं जनम् अचेतनताम् ज्ञानशून्यत्वम् नयामि प्रापयामि । येन अन्धताऽऽ- पादनेन कृत्यम् कर्त्तव्यम् न पश्यति विचारयति, येन बधिरताप्रापणेन हितम् न महामोह—तब तक क्रोध और लोभको बुलाओ । पुरुष—महाराजकी जो आज्ञा । ( क्रोध और लोभका प्रवेश ) क्रोध—मैने सुना है कि शान्ति, श्रद्धा और विष्णुभक्ति महाराजके विरुद्ध आचरण कर रही है । अहो ! हमारे जीतेजी इन लोगोको अपनी चिन्ता भूल गई ? क्योकि— मै जगत्को अन्धा और बहरा बना सकता हू, विद्वान्को अधीर तथा मूर्ख कर दे कता हूँ, जिससे उसे न कर्त्तव्य ज्ञान होगा, न वह हित बात सुनेगा, बुद्धिमान् होकर भी इ पढ़ी बाते भूल जायगा ॥ २९ ॥
८० प्रबोधचन्द्रोदयम् लोभः—अये, मदुपगृहीता मनोरथसरित्परम्परामेव तावन्न तरिष्यन्ति किं पुनः शान्त्यादींश्चिन्तयिष्यन्ति । पश्य पश्य सखे— सन्त्येते मम दन्तिनो मदजलप्रम्लानगण्डस्थला वातव्यायतपातिनश्च तुरगा भूयोऽपि लप्स्येऽपरान् । एतल्लब्धमिदं लभे पुनरिदं लब्धाधिकं ध्यायतां चिन्ताजर्जरचेतसां बत नृणां का नाम शान्तेः कथा ॥ ३० ॥ शृणोति, येन चाचेतनतानयनेन धीमान् बुद्धिमान् अपि अधीतम् पठितम् ( अपि ) न प्रतिसन्दधाति स्मरति । क्रोधेनान्धीकृतो जनो हितमहितं च विवेक्तुमशक्तो भवति, बधिरीकृतश्च हितमपि नाकणर्यति, अचेतनभावं गमितश्च धीमानपि नाधीत- मपि स्मरतीति भावः । तथा चोक्तमपि—'क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद्- गुरून्पि । क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत्' इति ॥ २९ ॥ मदुपगृहीताः=लोभेन धृताः । मनोरथसरित्परम्पराम्-अभिलाषरूपनदीश्रेणीम् । तरिष्यन्ति-पारं गमिष्यन्ति । लोभगृहीता जनाः सदैव मनोरथपरम्परामेव तन्वाना- स्तत्पूर्त्तय एव यतमानाश्च शान्तिविषयां चिन्तामपि न कर्त्तुं पारयन्तीति भावः । मनोरथपरम्पराप्रकारमग्रे वक्ष्यति-सन्त्येते इत्यत्र । सन्त्येत इति० मदजलप्रम्लानगण्डस्थलाः मदवारिक्लिन्नकपोलदेशाः एते दन्तिनः हस्तिनः मम सन्ति मदधिकारे वर्त्तन्ते, वाताः वायवः इव व्यायतपातिनः अधिक- धाविनः तुरगाः अश्वाश्च 'मम सन्ति' इत्यनुषज्य योजनीयम् । भूयः पुनः अपरान् अन्यान् अपि गजान् तुरगांश्च लप्स्ये । एतत् लब्धम् प्राप्तम् इदम् पुनर्लभे प्राप्नो- मि इदम् एवंप्रकारेण लब्धाधिकं प्राप्तादुपरि ध्यायताम् चिन्तयताम् चिन्ताजर्जर- चेतसाम् चिन्ताकदर्थितस्वान्तानां नृणाम् नराणाम् शान्तेः का नाम कथा बत ? येषां मनसि सदेदमाप्तमिदमाप्तव्यमित्येवमलब्धलाभविषया चिन्ता स्वां ज्वालां विस्तारयति तेषां शान्तेः का चर्चा ? बतेति निश्चयार्थे । व्यायतं दीर्घं पतन्तीति ध्यायतपातिनः, वातव्यायतपातिन इत्यस्य वायुवेगा इति निर्गलितार्थः । एतेन लोभस्य स्वरूपं प्रकटीकृतम् ॥ ३० ॥ लोभ—अरे, मैं जिसे पकड़ लूंगा वह मनोरथोंसे अपना पिण्ड नहीं छुड़ा सकेगा, शान्तिकी बात क्या सोचेगा ? देखो, देखो, मित्र, ये मेरे मतवाले हाथी हैं, ये मेरे हवा की तरह द्रुतगामी घोडे हैं और हाथी घोड़े मुझे मिलेंगे । यह पा लिया और पाना है इस तरह लब्धसे आगेकी चिन्तामें जर्जर चित्त बाले मनुष्योंको शान्तिकी बात क्या सूझेगी ॥ ३० ॥
द्वितीयोऽङ्कः ८१ क्रोधः—सखे, विदितस्त्वया मत्प्रभावः । त्वाष्ट्रं वृत्रमघातयत्सुरपतिश्चन्द्रार्धचूड़ोऽच्छिन- द्देवो ब्रह्मशिरो वसिष्ठतनयानाघातयत्कौशिकः । अपि च— विद्यावन्त्यपि कीर्तिमन्त्यपि सदाचारावदातान्यपि प्रोच्चैःपौरुषभूषणान्यपि कुलान्युद्धर्तुमीशः क्षणात् ॥ ३१ ॥ लोभः—तृष्णे, इतस्तावत् । ( प्रविश्य तृष्णा ) मत्प्रभावः—मम क्रोधस्य सामर्थ्यम् । त्वाष्ट्रमिति० त्वष्टुः देवशिल्पिनः अपत्यम् त्वाष्ट्रम् वृत्रम् सुरपतिः देवेन्द्रः अघा- तयत् हतवान्, देवः चन्द्रार्धचूडः चन्द्रशेखरः शिवः ब्रह्मशिरः ब्रह्मणो मस्तकम् अच्छिनत् अकृन्तयत्, कौशिकः विश्वामित्रो वसिष्ठतनयान् शतसंख्याकान् महर्षे- र्वसिष्ठस्य पुत्रान् अघातयत् अमारयत्, क्रोधान्धतायामिन्द्रः स्वशिल्पिनः पुत्रं वृत्रासुरमहन्, शिवो ब्रह्मशिरोऽच्छिनत्, कौशिकः परस्यापराधे परान् वसिष्ठतन- यान् अमारयत्, तदेवं क्रोधमाहात्म्यं महदिति सामान्येन समर्थयितुमाह—विद्या- वन्त्यपीति० ( अहं क्रोधः ) विद्यावन्ति प्रशस्तविद्यानि अपि कीर्त्तिमन्ति यशोभाज- नानि अपि, सदाचारावदातानि चरित्रशुद्धानि अपि, प्रोच्चैःपौरुषभूषणानि साम- र्थ्यशालितया प्रथितानि अपि कुलानि लोकसमुदायान् वंशान् वा क्षणात् एकेन मुहूर्तेन उद्धर्तुम् च्यावयितुम् ईशः समर्थः । क्रोधोऽह विद्यावतां यशस्विनां चारि- त्रिकशुद्धियुक्तानां पौरुषप्रथितानाञ्च जनानां हृदयानि बलादधिकर्तुं क्षमो यथादृष्ट- नेषूदाहरणेषु-इन्द्रो वृत्रासुरवधमकार्षीत्, संयमिश्रेष्ठशिवो ब्रह्मणः शिरोऽकृन्तत् , तपस्विचूड़ामणिविश्वामित्रो वसिष्ठपुत्रानघातय दिति । तदेवं प्रभावोऽहमिति भावः ॥ शार्दूलविक्रीडितमेव वृत्तम् ॥ ३१ ॥ इतस्तावत्–आगच्छेति शेषः । क्रोध—मित्र, तुम तो हमारा प्रभाव जानते ही हो । इन्द्रने वृत्रासुरका वध किया, शिवने ब्रह्माका सिर काटा, विश्वामित्रने वसिष्ठ पुत्रोंका [वध] किया । और विद्यासे युक्त तथा कीर्त्तिसे धवल एवं पौरुषसे भूषित कुलोंको भी मैं [क्षण] भरमे वशीकृत कर सकता हूँ ॥ ३१ ॥ लोभ—तृष्णे, जरा इधर तो आना । ( तृष्णाका प्रवेश ) ६ प्र० च०
=२ प्रबोधचन्द्रोदयम् तृष्णाः—किमाज्ञापयत्यार्यपुत्रः । (कि आणवेदि अज्जउत्तो) लोभः—प्रिये, श्रूयताम्— क्षेत्रग्रामवनाद्रिपत्तनपुरद्वीपक्षमामण्डल- प्रत्याशायतसूत्रबद्धमनसां लब्धाधिकं ध्यायताम् । तृष्णे देवि यदि प्रसीदसि तनोष्याङ्गानि तुङ्गानि चे- त्तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥ ३२ ॥ तृष्णा—आर्यपुत्र, स्वयमेव तावदहमस्मिन्नर्थे नित्यमभियुक्ता । सांप्र- क्षेत्र्यानेति० क्षेत्रम् कर्षणोपयुक्ता भूमिः, ग्रामः-वसतिः, वनम् काष्ठप्राप्तिसाधनम्, अद्रिः पर्वतः स च शैलेयादिप्राप्तिहेतुः, पत्तनम् स्वल्पग्रामः, पुरम् नगरम्, द्वीपम् देशभेदः, क्षमामण्डलम् पृथिवीचक्रम्, क्षेत्रमारभ्य क्षमामण्डलान्तमुपभोगार्थम- पेक्ष्यमागमिष्यते प्राणिभिरिति प्रसिद्धिम नुरुध्येषां क्रमशः लाभेऽग्रेऽग्रे वर्द्धते प्रत्या- शेति दर्शयितुमित्थं प्रोक्तम् । एषां प्रत्याशा प्राप्तीच्छा एव आयतम् विस्तृतम् सूत्रं रज्जुस्तन्बन्धनसाधनत्वात्तेन बद्धानि नियन्त्रितानि मनांसि हृदयानि येषां तेषाम् लब्धा- धिकम् प्राप्तादग्रिमम् ध्यायताम् साभिलाषमनसा भावयताम् प्राणभृताम् प्राणिनाम् प्रति तृष्णे देवि, यदि प्रसीदसि अनुग्रहं करोषि, तथा कृत्वा च अङ्गानि शरीरावयवान् तुङ्गानि महान्ति स्थूलानि च तनोषि कुरुषे चेत् तत् तदा, भोः इदं सम्बोधनम् नामान्तरं व्यञ्जयितुम्, ब्रह्माण्डलक्षैरपि लक्षसङ्ख्यैः ब्रह्माण्डैः प्राप्तैरपि कुतः शमकथा शान्तिचर्चा ? अयमाशयः—क्षेत्रादि क्षमामण्डलान्तं प्राप्तवन्तोऽपि जनाः प्राप्तादधिकं कामयन्त इति न तिरोहितं दृष्टिशालिनामस्यां स्थितौ त्वं तृष्णा यदि प्रसद्य लब्धा- धिकं ध्यायतां प्राणिनामङ्गानि स्थूलानि करोषि अर्थात् प्राप्तिप्रत्याशायां यत्र तत्र भ्रमणक्षमाणि सम्पाद्य स्वविस्तृतयेऽवसरमुत्पादयसि तदा ते सतृष्णा जना ब्रह्मा- ण्डलक्षाणि प्राप्यापि न शमं भजिष्यन्त इति । तदैवं यतस्वेति तदनुरोधः पूर्वो- क्तमेव वृत्तम् ॥ ३२ ॥ स्वयम्-अप्रवर्त्तिता । अस्मिन्नर्थे-सतृष्णजनतृष्णासमेधने । नित्यम्-सततम् । तृष्णा—आर्यपुत्रकी क्या आज्ञा है ? लोभ—प्रिये, सुनो,— क्षेत्र, ग्राम, वन, पहाड, गाँव, पृथ्वीमण्डल की आशामें जिनके दिल बंधे हैं, जो लब्धाधिक का ध्यान कर रहे हैं, यदि तुम कृपा करके उनके अङ्गों को स्थूलकर दो तो हे प्रिये ब्रह्माण्ड पाने पर भी प्राणियोंको शान्ति कहाँ होगी ॥ ३२ ॥ तृष्णा—आर्यपुत्र, मैं इस विषयमें खुद सचेष्ट रहती हूँ। अब आपके इशारा को
द्वितीयाऽङ्कः ८३ तमार्थपुत्रस्याज्ञया ब्रह्माण्डकोटयोऽपि न मे उदरं पूरयिष्यन्ति । (अज्जउत्त, सञ्चं जेव्व दाव अहं एदस्स अत्थे णिच्चं अहिजुत्ता । संपदं अज्जउत्तस्स अण्णाए बह्माण्डकोटिश्रोवि ण मे उदरं पूरेइस्संति ) क्रोधः—हिंसे, इत आगम्यताम् । ( प्रविश्य हिंसा ) हिंसा—एषास्मि । आज्ञापयत्वार्यपुत्रः । (एसम्हि । आणवेदु अज्जउत्तो) क्रोधः—प्रिये, तावत्त्वया सह धर्मचारिण्या मातृपितृवधोऽपि ममे- षत्कर एव । तथाहि— केयं माता पिशाची क इव हि जनको भ्रातरः केऽत्र कीटा वध्योऽयं बन्धुवर्गः कुटिलविटसुहृच्चेष्टिता ज्ञातयोऽमी । ( हस्तौ निष्पीड्य ) आगर्भं यावदेषां कुलमिदमखिलं नैव निःशेषयामि भियुक्ता-तत्परा । ब्रह्माण्डकोटयः-कोटिसंख्यकब्रह्माण्डानि । न मे उदरं पूरयि- न्ति तृप्तिं जनयिष्यन्ति । सहधर्मचारिण्या-स्त्रिया । ईषत्करः-सुकरः । हिंसासहचरः क्रोधो मातरं पित- पि च हन्तुं प्रवृत्तिशालीति भावः । केयमिति० इयं पिशाची राक्षसी इव माता जननी का ? न काऽपीत्यर्थः, जनकः ता क इव ? न कोऽपीत्यर्थः । कीटाः कीटवत्तुच्छाः भ्रातरः सोदराः अत्र के ? कोऽपीति भावः । अयम् बन्धुवर्गः परिवारचयः बन्ध्यः निष्प्रयोजनः । अमी थः दायादाः कुटिलविटसुहृच्चेष्टिताः कुटिलाः वक्राभिसन्धयो ये विटाः धूर्त्तजारा- दत् सुहृच्चेष्टितं मित्रताव् व्यवहारो येषां तादृशाः सन्तीति शेषः । यावत् यावत्काल- न्तम् एषाम् भ्रातृबन्धुवर्गज्ञातीनाम् आगर्भम् गर्भावस्थितानप्यपरित्यज्य अखि- अने पर तो करोड़ों ब्रह्माण्ड भी हमारे उदरको पूर्ण नही कर पायेंगे । क्रोध—हिंसे, जरा इधर तो आना । ( हिंसाका प्रवेश ) हिंसा—हाजिर हूं, आर्यपुत्र आदेश दें । क्रोध—प्रिये, तुमको प्राप्त कर मेरे लिये माता-पिताका वध भी आसान है, क्योंकि— पिशाची माता कौन है ? पिता कौन है ? कीटतुल्य ये भाई कौन है ? बन्धुओंको रगाना चाहिये । इन ज्ञातिजनोंका आचरण कुटिलधूर्त्तों का सा है । जब तक गर्भ
८४ प्रबोधचन्द्रोदयम् स्फूर्जन्तः क्रोधवह्नेर्न दधति विरतिं तावदङ्गे स्फुलिङ्गाः ॥ ३३ ॥ (विलोक्य) एष स्वामी । तदुपसर्पामः । (सर्वे उपसृत्य) जयतु जयतु देवः । महामोहः—श्रद्धायास्तनया शान्तिरस्मद्द्वेषिणी । सा भवद्भिरवहि- तैर्निग्राह्येति । सर्वे—यदादिशति देवः । (इति निष्क्रान्ताः) महामोहः—श्रद्धायास्तनया इत्युपक्षेपेणोपायान्तरमपि हृदयमारू- ढम् । तथाहि । शान्तेर्माता श्रद्धा । सा च परतन्त्रा । तत्केनाप्युपायेनोप- निषत्सकाशात्तावच्छ्रद्धापकर्षणं कर्तव्यम् । ततो मातृवियोगदुःखादति- लम् समग्रम् इदम् कुलम् नैव निःशेषयामि समापयामि तावत् तदवधि अङ्गे मदीये देहे स्फूर्जन्तः वर्धमानाः क्रोधवह्नेः कोपाग्नेः स्फुलिङ्गाः अग्निकणाः विरतिम् निवृत्तिम् न दधति धारयन्ति । यावदेतेषां भ्रात्रादीनामखिलमपि कुलं न विनाशयामि तावन्मम कोपस्य शान्तिर्न भवतीति तात्पर्यम् ॥ ३३ ॥ तनया-पुत्री, तदुदितत्वाच्छान्तेस्तत्पुत्रीभावेन रूपणम् । अस्मद्द्वेषिणी-अस्माकं प्रतिपन्थिनी । अवहितैः-सावधानैः । निग्राह्या-निग्रहीतव्या, दण्डनीयेति यावत् । आदिशति-आज्ञापयति । अत्रार्त्तिशान्तिप्रतीतेः शमो नाम प्रतिमुखसन्धेश्च- तुर्थमङ्गमुक्तं, तल्लक्षणं यथा—'आर्त्तिशान्तिः । शमः स्मृतः' इति । तनया-पुत्री । इत्युपक्षेपेण-इत्यस्य ध्यानपथागतत्वेन । उपायान्तरम्-अन्य समेत इनके कुलका नाश नहीं कर लेता हू तब तक क्रोधवह्निकी लपटें शान्त नहीं होंगी ॥ ३३ ॥ (देखकर) ये महाराज है । समीप जाता हूं । (सभी जाते हैं) जय हो महाराजकी, जय हो । महामोह—श्रद्धाकी बेटी शान्ति हमारी शत्रु है, तुमलोग सावधानतासे उसे निगृ- हीत करो । सब—जो आज्ञा महाराज की । (सब जाते हैं) महामोह—'श्रद्धाकी तनया है' इस प्रसङ्गसे एक दूसरा उपाय भी हमारी दृष्टिमे आगया । क्योंकि शान्तिका माता श्रद्धा । वह परतन्त्र है । इसलिये किसी छलसे उप-
द्वितीयोऽङ्कः ८५ मृदुलतया शान्तिरुपरता भविष्यति । श्रद्धां व्याक्रष्टुं मिथ्यादृष्टिरेव विला- सिनी परं प्रगल्भेति तदस्मिन्विषये सैव नियुज्यताम् । (पार्श्वतो विलोक्य) विभ्रमावति, सत्वरमाहूयतां मिथ्यादृष्टिविलासिनी । विभ्रमावती-यद्देव आज्ञापयति । (जं देवो आणवेदि) । (निष्क्रम्य मिथ्यादृष्ट्या सह प्रविशति) मिथ्यादृष्टिः-सखि, चिरदृष्टस्य महाराजस्य कथं मुखं प्रेक्षिष्ये । न खलु मां महाराज उपालप्स्यते ? (सहि, चिरदिट्ठस्स महाराअस्स कहं मुहं पेक्खिस्सं । णं खु मं महाराओ उवालहिस्सदि ?) विभ्रमावती-सखि, त्वन्मुखदर्शनेनात्मानमेव महाराजो न वेत्स्यति । उपायः । सा च-शान्तिः । परतन्त्रा-मात्राद्यत्ता । उपनिषत्सकाशात्-उपनिषदः समीपदेशात् । श्रद्धाऽपकर्षणम्-श्रद्धाया दूरीकरणम् । अतिमृदुलतया-अतिसुकुमार- तया । उपरता-मृता । श्रद्धासाहचर्यव्यपगमे शान्तेर्नाशस्तदायत्तत्वात्तस्या इति मनसिकृत्वेदं रूपकम् । व्याक्रष्टुम्-अपगमयितुम् , उपनिषदः समीपाच्चालयितु- मित्यर्थः । मिथ्यादृष्टिः-नास्तिकता । प्रगल्भा-धृष्टा, क्षमेति भावः । अस्मिन् विषये- श्रद्धाया उपनिषत्सकाशादपकर्षणरूपे कर्मणि। सा-मिथ्यादृष्टिः । नियुज्यताम्-अधि- क्रियताम् । 'विभ्रमावति' इदं मिथ्यादृष्टिसख्या नाम, 'अन्यतोऽपि दृश्यते' इति विभ्रमशब्दस्य दीर्घः । सत्वरम्-शीघ्रम् । आहूयताम्-आकार्यताम् । चिरदृष्टस्य-बहोः कालात् परतः साक्षात्कृतस्य । प्रेक्षिष्ये-द्रक्ष्यामि । उपालप्स्यते इयन्तं कालं कुत्र स्थितासि ? कथं न दृष्टासि ? इत्येवं प्रकारमुपालम्भं न प्रदास्य- तीति जिज्ञासा । त्वन्मुखदर्शनेन-त्वद्वदनावलोकनेन । आत्मानमेव न वेत्स्यति-आत्मानं विस्म- निषद्के पाससे श्रद्धाको हथिया लें । इस तरह माके वियोगमे शान्ति ढीली पड जायगी । श्रद्धाको बहकानेमें मिथ्यादृष्टि ही समर्थ हों सकेगी, अतः इस कार्यके लिये उसे ही नियुक्त करना चाहिये । (बगलकी ओर ताककर) विभ्रमावति, विलासिनी मिथ्यादृष्टिको शीघ्र बुला लाओ । विभ्रमावती-महाराजकी जो आज्ञा । (बाहर जाकर मिथ्या दृष्टिके साथ प्रवेश) मिथ्यादृष्टि-सखि, बहुत दिनों के बाद महाराज का मुख कैसे देख सकूंगी, क्या महाराज मुझे उलाहने नही देंगे ? विभ्रमावती-सखि, तुम्हारा मुख देखकर महाराज अपने को भूल जायेगे, फिर
कुत उपालप्स्ये ? ( महि, तुअ मुहदंसणेण अप्पाणं जेव्व महाराओ ण बेइस्यदि । कुदो उवालहिस्सदि ? ) मिथ्यादृष्टिः—सखि, कि मामलीकसौभाग्यां संभाव्य विडम्बयसि । ( सहि, किं मं अलीअसोहग्गं संभाविय विलम्बेसि ) विभ्रमावती—सखि, सांप्रतमेव प्रेक्षिष्येऽलीकत्वं सौभाग्यस्य । अन्यच्च निद्राघूर्णाकुले प्रियसख्या लोचने पश्यामि । तर्हि कि खलु प्रिय- सख्या लोचनस्य विनिद्रतायाः कारणम् । ( सहि, संपदं जेव्व पेक्खिस्से अलि- अत्तणं सोहग्गस्स । अण्णंच णिद्दाघुम्माउले पिअसहीए लोअणौ पेक्खेमि । ता कि खु पिअसहीए लोअणस्स विणिद्ददाए कालणम् ) मिथ्यादृष्टिः—सखि, एकवल्लभापि या स्त्री भवति तस्या अपि निद्रा दुर्लभा । किं पुनरस्माकं सकललोकवल्लभानाम् । ( सहि, एकवल्लहावि जा इत्थिआ भवई ताएवि णिद्दा दुल्लहा । किं उण अम्हाणं सअललोअवल्लहाणम् ) रिष्यति, आनन्दाधिक्येनात्मविस्मृतिर्भवतीत्यन्तर्निधायायंग्रन्थः। कुतः ?-कस्मात् । अलीकसौभाग्यम्-मिथ्याभाग्यवतीम् । सम्भाव्य-कल्पयित्वा । त्वां दृष्ट्वैव महाराजः त्वं विस्मरिष्यतीति तव कथनन्मम सौभाग्यातिशयकल्पनया, नास्ति मम तादृशं सौभाग्यं यन्मयि महाराजस्य तथाभूतमाकर्षणं स्यादतो मामलीक सौभाग्यां कल्पयित्वोपहासो नोचित इति भावः । विडम्बयसि-उपहससि । अलीकत्वम्-असत्यताम् । विपरीतलक्षणया सत्यत्वमित्यर्थः, निद्राघूर्णाकुले- निद्रया घूर्णमाने तथैव चाकुले । प्रियसख्याः-तव । विनिद्रतायाः-जागरस्य । किमु दिश्य जागरेण निद्रां क्षपितवत्यसि, यदेवं घूर्णमाने व्याकुले च तव लोचने दृश्येते नास्ति तव प्रियः परासक्तो यं प्रतीक्षमाणायास्तवैयं स्थितिः स्यादिति तात्पर्यम् । एकवल्लभा-एकत्र नायकेऽनुरक्ता । तस्याः-एकवल्लभायाः । साऽपि स्वं नायकं प्रतीक्षमाणा निशमुन्निद्रभावेन गमयन्ती सम्भवति । सकललोकवल्लभा उलाहना कैसा ? मिथ्या०—सखि, क्यो मेरे सौभाग्य की मिथ्या कल्पना करके मुझे बना रही हो ? विभ्रमा०—अभी तो तुम्हारे मिथ्या सौभाग्यको देखना है और तुम्हारी आंखों रात जागरणकी खुमारी दीख पडती है, क्या कारण है ? मिथ्या०—जिसका एक स्वामी होता है वह स्त्री भी ठीक से सो नही पाती है, फिर हमारी जैसी सकल लोकवल्लभाकी क्या बात ?
विभ्रमावती—के-के पुनः प्रियसख्या वल्लभाः । ( के के उण पिअसहिए वल्लहा ) मिथ्यादृष्टिः—सखि, प्रथमं महाराजः, अत उपरि कामः, क्रोधः, लोभः, अहंकारश्च । अथवाऽलं विशेषेण । अस्मिन्कुले यो जातो बालः स्थविरो युवापि हृदयनिहितया मया विना रात्रिदिवसान्नाभिरमते । ( सहि, पढमं महाराओ, अदो उवरि कामो, कोहो, लोहो, अहंकालो त्ति । अथवा अलं विसेसेण । एत्थ कुले जो जादो बालो दूट्ठविरो जुवाणोवि हिअअणिहिदए मए विणा रद्दिदिअंहाइ ण अहिरमई ) विभ्रमावती—नन्वस्य कामस्य रतिः, क्रोधस्य हिंसा, लोभस्य तृष्णा, प्रियतमेति श्रूयते । तासां कथं प्रियतमान्नित्यं रमयन्तीर्ष्यां न संजनयसि । ( णं एत्थ कामस्स रदी, कोहस्स हिंसा, लोहस्स तिण्हा परमप्पिआ सुणीअदि । तासं कथं पिअदमाणं णिच्चं रमन्दी इस्सं ण संजाणेसि ) मिथ्यादृष्टिः—सखि, ईर्ष्येति कथं भण्यते । ता अपि मया विना नाम्—सर्वजनप्रियाणां, बहुभक्तिकानामित्याशयः । अस्मिन् कुले-मोहवंशे । स्थविरः-वृद्धः । हृदयनिहितया-हृदयस्थापितया । मोहकुले यो जातः स वृद्धो युवा बालो वाऽस्तु मिथ्यादृष्टि मां विना न रमते, सर्वेषां प्रियाऽहमिति भावः । तासाम्-रतिहिंसातृष्णानाम् । प्रियतमान्-वल्लभान् कामक्रोधलोभान् । रमयन्ती-स्वेन सह विहारयन्ती । रतिहिंसातृष्णास्त्वया सह रममाणान् स्वप्रिया- न्कामक्रोधलोभान्विलोक्य त्वयीर्ष्यां कथं न वहन्ति ? स्वभावो ह्येष नारीणां यत्ताः प्रियान् पराङ्गनाऽऽसक्तान् विलोकमानास्तस्यै स्त्रियै ईष्यन्ति कुप्यन्ति च स्वनाथ- केभ्य इति वाक्यार्थः । ईर्ष्येति कथं भण्यते-तासामीर्ष्याभाजनमहं स्यामिति का कथा ? तामपि परं विभ्रमा०—तुम्हारे कौन कौन वल्लभ हैं ? मिथ्या०—सखि, प्रथम तो महाराज ही । उसके बाद काम, क्रोध, लोभ, अहङ्कार । अथवा विशेष नाम लेनेकी क्या जरूरत है ? इस वंशमें जो हो, चाहे वह लडका जवान बूढा कोई हो, बिना मुझे हृदयमे रखे चैन नही लेता है । विभ्रमा०—कामकी स्त्री रति है, क्रोधकी हिंसा, लोभकी तृष्णा । फिर उनके प्रियतमों से स्नेह करती हो, क्या वह खफा नहीं होती ? मिथ्या०—सखि, ईर्ष्याकी क्या बात, वह भी मेरे बिना एक क्षण भी चैन से नहीं
८८ प्रबोधचन्द्रोदयम् मुहूर्तमपि न तुष्यन्ति । (सहि, इसेत्ति कहं भणीयदि । ता अवि मए विणा मुहुत्तंवि ण तुस्संति ) विश्रमावती—सखि, अत एव भणामि त्वत्सदृशी सुभागास्यां पृथिव्यां नास्ति, यस्याः सौभाग्यमाहात्म्यविधुरितहृदयाः सपत्न्यः प्रसादं प्रती- च्छन्ति । सखि, अन्यद्भणामि । एवं निद्राकुलनयनविसंस्थुलस्खलच्चरण- नूपुरझङ्कारमुखरया गत्या महाराजं संभावयन्ती शङ्कितहृदयं करिष्यति प्रियसखीति तर्कयामि । (सहि, अदो जेव्व भणामि तुहसरिसी सुहआ इत्थिआ पुहिवीए णत्थि । जाए सोअग्गमहद्धिविहुरिअहिश्रआ सावत्तिओ प्पसादं पडिच्छन्ति । सहि, अण्णञ्च भणामि । एवं णिद्दाउलणअणविसंठुलक्खलन्तचरणनेउलंझंका- रमुहलाए गदीए महाराअं संभावयदी संकिदहिअअं करिस्सदि पिअसहीति तक्केमि ) मिथ्यादृष्टिः—किमत्र शङ्कितव्यम् । न चास्माकं महाराजनियुक्ताना- सन्तोषं प्रकटयन्तीति हि वस्तुस्थितिरतस्तद्दीर्घ्याप्रश्नोऽनवकाश इति भावः । सुभगा-भाग्यशालिनी । यस्याः-तव । सौभाग्यमाहात्म्यविधुरितहृदयाः- भाग्यवत्ताऽतिशयपराजितमनसः । प्रसादम्-प्रसन्नताम् । प्रतीच्छन्ति-कामयन्ते । सपत्न्यो हि सपत्न्याः सौभाग्यं दृष्ट्वा दुःखमनुभवन्त्यस्ततो विरक्तास्तिष्ठन्ति, सार्व- त्रिकोऽयं नियमः, परमिदं तव सौभाग्यस्यैव महत्त्वं यत्त्वत्सौभाग्यमहत्तया पराजि- तास्त्व सपत्न्यस्तव प्रसादमेव प्रतीक्षन्त इति धन्यासीति भावः । निद्रेति० निद्रया स्वापप्रवृत्त्या आकुले पूर्णे ये नयने नेत्रे ताभ्याम् विसंस्थुलौ अयथास्थानन्यस्तावत् एव च स्खलन्तौ निम्नोन्नतभूमिस्थापितत्वेन चलौ यौ चरणौ पादौ तयोः नूपुरयोः झङ्कारः शब्दस्तेन मुखरया स शब्दया गत्या-गमनेन । महाराजम्-मोहम् । संभाव- यन्ती-सत्कुर्वती । शङ्कितहृदयम्-परपुरुषरत्योश्चिह्नच्छापह्नपञ्चकृतोऽस्या नयनविकार इति मनसि भावयन्तम् । अहं तर्कयामि त्वां निद्राकुलनयनतया स्खलद्गमनां दृष्ट्वा तव परपुरुषोपभोगविषयां शङ्कां महाराजः करिष्यतीति भावः । महाराजनियुक्तानाम्-महाराजेन पुमन्तररमणार्थमाज्ञातानाम् । एषोऽविनयः- रहती है । विश्रमा०-इसी लिये तो कहती हूं कि तुम्हारी जैसी सुभगा इस विश्वमें नहीं है जिसके सौभाग्यसे पराजित सपत्नियां भी प्रसादकी कामना करतो हैं । सखि, और कहती हूँ, इस तरह निद्रासे अलस आंखे। से स्खलित चरण चलती हुई तुम महाराजके हृदयमें आशङ्का उत्पन्न कर दोगी । मिथ्यादृष्टि—इसमे शङ्काकी क्या बात है? हमलोग तो महाराजकी आज्ञासे ही ऐसा
द्वितीयोऽङ्कः ८६ मेवैषोऽविनयः । अपि च सखि, दर्शनमात्रप्रसन्नानां पुरुषाणां पुरतः कीदृशं भयम् । ( किं एत्थ संकिदव्वं । णं अम्हाण महाराअणिउत्ताणं जेव्व एसो अविणओ । अविअ सहि, दंसणमत्तप्पसण्णाणं पुरीसाणं पुरो कीरिसं भअम् ) महामोहः—(विलोक्य) अये, संप्राप्तेव प्रिया मिथ्यादृष्टि । या एषा— श्रोणीभारभरालसा दरगलन्माल्योपवृत्तिच्छुला- ल्लीलोत्तित्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः । नीलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो दोषान्दोलनलोलकङ्कणरणत्कारोत्तरं सर्पति ॥ ३४ ॥ ईदृशेनाकारेण महाराजार्पणरूपः । दर्शनमात्रप्रसन्नानाम्-कामिनीविलोकनमात्र- हृष्टानाम् । एतेन पुरुषाणां कामुकभावातिशयावेदनेन तेषां स्त्रीकृतचापलविषयक- निपुणनिरीक्षणाक्षमत्वं बोधितम् । सम्प्राप्ता-समायाता । श्रोणीभारेति० श्रोणी नितम्बस्तस्या भारो गौरवं तस्य भरः समुदयस्तेन अलसा मन्दगतिः, दरम् ईषत् गलन् धम्मिल्लदेशात् संसमानस्य माल्यस्य पुष्पदान्नः उपवृत्तिः स्वस्थानप्रापणं तस्य च्छलात् व्याजात् उपदर्शितौ दर्शनगोचरीकृतौ कुचौ स्वस्तनौ तयोः, उन्मीलन्ती स्फुटलक्ष्या नखाङ्कावलिः करजचिह्नराजिः यस्याः सा तादृशी, नीलेन्दीवरदामदीर्घतरया नीलकमलमालाविशालया दृष्टया नयनेन मनः विलोककहृदयम् धयन्ती पिबन्ती समधिकमाकर्षन्ती दोष्णोः बाह्वोः आन्दोलनेन चालनेन लोलयोः चञ्चयोः कङ्कणयोः पाणिभूषणविशेषयोः रणत्कारः झणझणायमा- नता तदुत्तरम् तेन सह सर्पति, इत्थ मम मिथ्यादृष्टिर्नाम प्रिया समायाति या नित- म्बभारवशाम्मन्दगमना धम्मिल्लस्रंसमानपुष्पदामसमीकरणच्छद्मना कुचास्थितन- खाङ्कं दर्शयन्ती, श्यामलदृष्टिच्छटया बलादिव मनो हरन्ती, बाह्वोरान्दोलनेन झण- त्कुर्वत्कङ्कणा चेति भावः । शार्दूलविक्रीडितमेव वृत्तम् ॥ ३४ ॥ अविनय करतां हैं । इसके अलावा पुरुषोंसे क्या भय जब देखने से ही पुरुषोंको प्रसन्न कर लिया जा सकता है । महामोह—(देखकर) मेरी प्रिया मिथ्यादृष्टि आ रही है । यह— श्रोणीभारसे अलस तथा गिरती हुई मालाकी उपवृत्तिके छलसे बाहु उठाकर स्तनस्थित नखाङ्क दिखाकर श्याम कमल समान दीर्घ नयनोंसे हृदय हरती हुई बाहु हिलानेसे कङ्कण खनखनाती हुई आ रही है ॥ ३४ ॥
६० प्रबोधचन्द्रोदयम् विभ्रमावती—एष महाराजः । उपसर्पतु प्रियसखी । ( एसो महाराओ । उवसप्पदु पिअसही ) मिथ्यादृष्टिः—( उपसृत्य ) जयतु जयतु महाराजः । ( जअदु जअदु महाराओ ) महामोहः—प्रिये, दलितकुचनखाङ्कमङ्गपालीं रचय ममाङ्कमुपेत्य पीवरोरु । अनुहर हरिणाक्षि शंकराङ्कस्थितहिमशैलसुताविलासलक्ष्मीम् ॥३५॥ ( मिथ्यादृष्टिः सस्मितं तथा करोति ) महामोहः—( आलिङ्गनसुखमभनीय ) अहो, प्रियायाः परिष्वङ्गात्परा- वृत्तं नवयौवनम् । तथाहि— उपसर्पतु-समीपं गच्छतु । दलितेति० दलिताः दृढाश्लेषवशान्मृष्टाः कुचनखाङ्काः स्तनस्थितानि नखक्षतानि यत्र तथेति क्रियाविशेषणम्-दलितकुचनखाङ्कम् इति तथा अङ्गपालीम् आलिङ्गनं रचय विधेहि, पीवरोरु मांसलोरुदेशे हरिणक्षि मृगनेत्रे, द्वयम् इद मिथ्यादृष्टिरूप- नायिकासम्बोधनम् , मम मोहस्य अङ्कम् क्रोडम् उपेत्य प्राप्य शङ्कराङ्के शिवक्रोड़े स्थिता या हिमशैलसुता पर्वतराजपुत्री तस्या विलासः स्वपत्या सह स्वच्छन्दं निधुवनविलसितम् तस्य लक्ष्मीम् शोभाम् अनुहर अनुकुरु । मदङ्के स्थिता पार्वत्या हरक्रोडस्थितायाः सादृश्यमाप्नुहि, अनेनोपमालङ्कारेणावयोरविघ्नं विलसितं प्रवर्त्त- तामिति व्यञ्जितम् ॥ पुष्पिताग्रा वृत्तम् , लक्षणं पूर्वमुक्तम् ॥ ३५ ॥ तथाकरोति-मोहमालिङ्गति । परिष्वङ्गात्-आलिङ्गनात् । परावृत्तम्-गत्वा निवृत्तम् । गतयौवनोऽप्यहमधुना विभ्रमावती—ये महाराज हैं, तुम चलो । मिथ्यादृष्टि—( समीप जाकर ) जय हो महाराजकी । महामोह—प्रिये, ओ पीवरोरु, मेरी गोदमे बैठकर कुचगत नखाङ्कको दलित कर आलिङ्गन प्रदान करो और ओरी मृगनयनी, महादेवको गोदमे बैठी पार्वतीकी शोभाको प्राप्त कर लो ॥ ३५ ॥ ( मिथ्यादृष्टि हसकर वैसा करती है ) महामोह—( आलिङ्गन सुख पाकर ) अहा ! प्रियतमाके आलिङ्गनसे हमारी जवानी लौट आई है । क्योकि—
द्वितीयोऽङ्कः ६१ यः प्रागासीदभिनववयोविभ्रमावाप्तजन्मा चित्तोन्माथी विविधविषयोपप्लवानन्दसान्द्रः। वृत्तीरन्तस्तिरयति त्वाश्लेषजन्मा स कोऽपि प्रौढः प्रेमा नव इव पुनर्मान्मथो मे विकारः॥ ३६॥ मिथ्यादृष्टिः—महाराज, अहमपि सांप्रतं नवयौवना संवृत्ता। न खलु भावानुबन्धः प्रेमा कालेनापि विघटते। आज्ञापयतु महाराजः किन्निमित्तं भट्टारकेण स्मृतास्मि। (महाराअ, अहंपि संपदं नवजोवणा संवृत्ता। ण खु भावाणुबन्धो प्पेमा कालेणावि विघडिअदि। आणवेदु महाराओ किंणिमित्तं भट्ठिणा सुमरिदम्हि) महामोहः—प्रिये, स्मर्यते सा हि वामोरु या भवेद्धृदयाद्बहिः। प्रियाऽऽलिङ्गितः सन् युवेव प्रतीये तन्मन्ये मम यौवन गत्वा पुनः परावृत्तमिवेति भावः। य. प्रागिति० अभिनववयो विभ्रमावाप्तजन्मा नवीनावस्थोचितविलासप्राप्तजनुः चित्तोन्माथी हृदयोन्मादकः विविधविषयोपप्लवानन्दसान्द्रः नानाविधभोग्यपदार्थ- सम्बन्धसमुद्भूतहर्षपूर्णः यः मान्मथो विकारः कामवेगः मे मम मोहस्य प्राक् यौ- वनावस्थायाम् आसीत् सः नव इव प्रौढः प्रेमा अनुपभुक्त इव प्रगाढस्तदाश्लेष- जन्मा त्वदङ्गसङ्गसमुद्भवः स्नेहः अन्तः हृदयदेशावच्छेदेन वृत्तीः तत्तद्वाह्यवस्तुविष- यकज्ञानानि तिरयति आवृणोति। मम यौवनदशायां यादृशो मन्मथो विकार आसीत्स एव संप्रति त्वदालिङ्गनेन प्रादुर्भूय ममान्तर्वृत्तीरावृणोतीति मन्ये मदीयं यौवनमेव परावृत्तमिति भावः। शालिनीवृत्तम्, तल्लक्षणं यथा—'मात्तौ गौ चेच्छा- लिनी वेदलोकैः'॥ ३६॥ साम्प्रतम्-भवता सङ्गमस्यात्र काले। नवयौवना-नववयाः। संवृत्ता-जाता। भावा- नुबन्धः-हृदयगतः। प्रेमा-स्नेहः। विघटते-न्यूनीभवति। भट्टारकेण-राज्ञा भवता। स्मर्यत इति० हे वामोरु सुन्दरजङ्गे, सा स्मर्यते ध्यायते या हृदयात् बहिः अन्यत्र नइ जवानीकी मस्तीसे उत्पन्न होने वाला तथा हृदयको मथकर नाना प्रकारका वैषयिक सुख उपस्थित करने वाला जो कामविकार पहले था, वह फिरसे तुम्हारे आलिङ्गनसे उद्भूत होकर सभी वृत्तियोको तिरोहित कर रहा है ॥ ३६ ॥ मिथ्यादृष्टि—महाराज मे भी इस समय नई नवेली सी हो रही हूँ, भावानुबन्धी प्रेम पर समयकी आंच नहीं लगती है। कृपया आप बतावें क्यो याद की गई हूँ। महामोह—प्रिये, जो हृदयसे दूर हो उसे याद किया जाता है, तुम तो हमारे
६२ प्रबोधचन्द्रोदयम् मच्चित्तभित्तौ भवती शालभञ्जीव राजते ॥ ३७ ॥ मिथ्यादृष्टिः—महान्प्रसादः । (महाप्पसादो ) महामोहः—यथैव प्रकाशितैरङ्गैः सर्वत्र विचरसि तथैव प्रवर्तितव्यम् । अन्यच्च दास्याः पुत्री श्रद्धा विवेकेन सहोपनिषदं संयोजयितुं कुट्टिनीभावं प्रतिपन्ना । अतः— प्रतिकूलामकुलर्जा पापां पापानुवर्तिनोम् । केशेष्वाकृष्य तां रण्डां पाषण्डेषु निवेशय ॥ ३८ ॥ मिथ्यादृष्टिः—एतावन्मात्रेऽपि विषये अलं भर्तुरभिनिवेशेन । वचन- मात्रेणैव भर्तुर्दासी श्रद्धा सर्वामाज्ञां करिष्यति । सा खलु मया मिथ्या धर्मो, मिथ्या मोक्षो, मिथ्या वेदमार्गो, मिथ्या सुखविघ्नकराणि शास्त्र- भवेत्, ( स्मरणात्मकज्ञानस्यासन्निहितविषयकत्वनियमात्तस्या एव स्मरणं क्रियते हृदयेन या न तत्र स्थिता ) भवती त्वम् मच्चित्तभित्तौ मद्हृदयरूपकुड्ये शालभञ्जी चित्रविन्यस्तपुत्तलिका इव राजते । अतश्च तव नित्यहृदयस्थतया स्मरणस्य प्रश्न एव नास्तीत्यर्थः ॥ ३७ ॥ प्रकाशितैः-अनावृतैः । दास्याः पुत्रीति निन्दार्थे । कुट्टिनीभावम्-दौत्यम् । प्रति- पन्ना-गता । प्रतिकूलामिति० प्रतिकूलाम् अस्मदननुकूलकार्यपरायणाम् अकुलजाम् दुष्कुल- सम्भवाम् पापाम् स्वकुलक्षयप्रवृत्ततयाऽसदाचाराम् पापानुवर्त्तिनीम् पापानां शमा- दीनामनुगामिनीम् ताम् रण्डाम् नियामकसहितत्वेन रण्डासादृश्यात्तथोक्तिः । श्रद्धाम् पाखण्डेषु सद्धर्मशून्येषु केशेष्वाकृष्य वलाद् गृहीत्वा निवेशय प्रवर्त्तय । श्रद्धा हि त्रिविधा सात्त्विकी, राजसी, तामसी च, तत्र सात्त्विकी श्रद्धा निष्ठावतामेव, अपरे पाखण्डानाम्, अतः श्रद्धासामान्येन नास्माकं भय किन्त्वाद्ययैव, तेन श्रद्धां पाखण्डेषु निवेश्य नोभयमपासयेति भावः ॥ ३८ ॥ एतावन्मात्रे-लघुनीह कार्ये । अभिनिवेशेन-मनोव्यापारेण । वचनमात्रेण-मद्वा- हृदयमें क्रीडा पुत्तलिका की तरह अवस्थित हो ॥ ३७ ॥ मिथ्या०—बड़ी कृपा है । महामोह—जिस तरह खुले वदन सब जगह जाती हो वैसे ही घूमा करना, और अभागी श्रद्धा विवेकके साथ उपनिषद्को मिलानेमे कुट्टिनी बनी हुई है, अतः— हमारी विरोध करने वाली पापा, पापाचारा तथा वरजात उस रांड श्रद्धाको चोटी पकड कर पाखण्डोंमे आसक्त कर दो ॥ ३८ ॥ मिथ्या०—इतनी सी बातके लिये आप चिन्ता न करे, कहनेसे ही आपकी दासी श्रद्धा आज्ञा पालन करने लगेगी । उसे जब मै—'धर्म मिथ्या है, मोक्ष मिथ्या है, वेदमार्ग
द्वितीयोऽङ्कः ६३ प्रलपितानि, मिथ्या स्वर्गफलमिति भण्यमाना वेदमार्गमेव परिहरिष्यति, किं पुनरुपनिषदम् । अपि च । विषयानन्दविमुक्ते मोक्षे दोषान्दर्शयन्त्योप- निषदोऽपि विरक्ता करिष्यतेऽचिरं मया श्रद्धा । ( एद्दहमेत्तके वि विसए अलं भट्टिणो अहिणिवेसेण । वज्जणमत्तक्केण जेव्व भट्टिणो दासी सद्वा सव्वं अप्पणं करि- स्सदि । सा खु मए मित्था धम्मो, मित्था मोक्खो, मित्था वेअमग्गो, मित्था सुह- विग्घकराइं, सत्थपलविदाई, मित्था सग्गफलं ति भणिअन्ती वेअमग्गं जेव्व पलि- हलिसदि, किं उण उवणिसाहम् । अवि अ । विसआणन्दविमुक्के मोक्खे दोसाणं दंसअन्तीए उवणिषदोवि विरत्ता कलिस्सदि अचिरं मए सद्धा ) । महाराजः—यद्येवं सुष्ठु मे प्रियं संपादितं प्रियया । ( पुनरालिङ्ग्य चुम्बति ) मिथ्यादृष्टिः—भट्टारकस्य प्रकाशे एवं प्रवृत्तेन लज्जे । ( भट्टिणोप्पआसे एव्वं प्पउत्तेण लज्जेमि ) महामोहः—तद्भवतु । स्वागारमेव प्रविशामः । ( इति निष्क्रान्ताः सर्वे ) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके द्वितीयोऽङ्कः ॥ २ ॥ ज्ञया केवलया । वेदमार्गपरिहारे तदवयवरूपोपनिषत्परिहारो न्यायसिद्ध इत्याह-वेद- मार्गमिति० विषयानन्दविमुक्ते-सांसारिकसुखशून्ये । मोक्षे-जडताऽऽपत्तिरूपे कैवल्ये । भट्टारकस्य-सूर्यस्य । तथा च स्मर्यते-'तदद्य भट्टारकवारे कथमेतान्' इति हितो- पदेशे । एवं प्रवृत्तेन-भवतश्चुम्बनव्यापारेण । स्वागारम्-निजावासगृहम् । अनेन चुम्बनाद्यभिलाषपूर्तेर्दुर्वारता ध्वनिता । इति मैथिलपण्डितश्रीरामचन्द्रमिश्रप्रणीते प्रबोधचन्द्रोदय'प्रकाशे' द्वितीयाङ्क'प्रकाशः' मिथ्या है, सुखविघ्नकर शास्त्र व्यर्थ हैं, स्वर्गफल व्यर्थ है', यह बता दूंगी तो वह वेदमार्ग ही छोड़ देगी, फिर उपनिषद्की क्या बात ? और—विषयानन्दशून्य मोक्षके दोषों को दिखाकर उसे उपनिषद्से भी शीघ्र ही विरक्त कर दूंगी । महाराज—यदि ऐसी बात है तब तो तुमने मेरा बडा उपकार किया । ( फिर गले लगाकर चूमता है ) मिथ्यादृष्टि—दिनदहाडे आपकी इस प्रवृत्तिसे लज्जा लगती है । महामोह—अच्छी बात है, घरमे ही चले । ( सब जाते हैं ) द्वितीय अङ्क समाप्त
तृतीयोऽङ्कः ( ततः प्रविशति शान्तिः करुणा च ) शान्तिः—(सास्रम्) मातः मातः, कासि । देहि मे प्रियदर्शनम् । ततः— मुक्ताशङ्ककुरङ्गकाननभुवः शैलाः स्खलद्वारयः पुण्यान्यायतनानि संतततपोनिष्ठाश्च वैखानसाः । यस्याः प्रीतिरमीषु सात्रभवती चण्डालवेश्मोदरं प्राप्ता गौः कपिलेव जीवति कथं पाषण्डहस्तं गता ॥ १ ॥ अथवाऽलं जीवितसंभावनया । यतः— सास्रम्-सरुदितम् । प्रियम्-इष्टम् । मुक्ताशङ्केति० मुक्तः त्यक्तः आतङ्कः भयम् यैस्ते मुक्ताशङ्काः निर्भयाः कुरङ्गाः मृगाः येषु तादृशानि यानि काननानि वनानि तेषां भुवः पृथिव्यः निर्भयचरन्मृग- काननधरण्यः, स्खलद्वारयः जलप्रपातयुक्ताः शैलाः पर्वताः, पुण्यानि पवित्राणि आयतनानि देवमन्दिराणि, सन्तततपोनिष्ठाः सदा तपस्यापरायणाः वैखानसाः ऋषयः च, अमीषु अनन्तरमुक्तेषु पदार्थेषु यस्याः भवत्याः श्रद्धायाः प्रीतिः अनुरागः, सा अत्रभवती पूजनीया मम माता श्रद्धा पाषण्डहस्तं वेदबाह्यजनाधिकारम् गता चाण्डालवेश्मोदरम् चण्डालगृहमध्यम् प्राप्ता कपिला गौः इव कथं केन प्रकारेण जीवति ? याऽत्रभवती निर्भयसञ्चरन्मृगभूमिषु जलप्रपातशीतलितशिखरभूधरेषु पवित्रदेवतामन्दिरेषु ऋषिसाहचर्ये च प्रीतिं बिभर्त्ति, पाषण्डहस्तंगता सा चाण्डाल- भवनमुपेतो कपिला गौरिव कथं जीवनं यापयति ? अतिकष्टं भवत्या जीवनमित्यर्थः । स्पष्टमन्यत् । शार्दूलविक्रीडितं वृत्तम् ॥ १ ॥ अलं जीवितसंभावनया-सम्प्रति यावद्भवती जीवनं धारयन्ती भविष्यतीति कल्पना व्यर्थेत्यर्थः । ( शान्ति तथा करुणाका प्रवेश ) शान्ति—( रोकर ) मां कहा हो ? मुझे दर्शन दो । निर्भय मृगयुक्त वनभूमि, झरनेवाले पर्वत, पुण्य आश्रम, तपोनिष्ठ मुनिजनसे जो स्नेह करती है, वह श्रद्धा पाखण्डोके हाथ पड़कर चाण्डालके घरमे पड़ी गायकी तरह कैसे जीती होगी ? ॥ १ ॥ अथवा—जीते रहनेकी संभावना करना व्यर्थ है, क्योकि—
तृतीयाऽङ्कः ६५ मामनालोक्य न स्नाति न भुङ्क्ते न पिबत्यपः । न मया रहिता श्रद्धा मुहूर्तमपि जीवति ॥ २ ॥ तद्विना श्रद्धया मुहूर्तमपि शान्तेर्जीवितं विडम्बनमेव । तत्सखि करुणे, मदर्थं चितामारचय । यावदचिरमेव हुताशनप्रवेशेन तस्याः सह- चरी भवामि । करुणा—( सास्रम् ) सखि, एवं विषमज्वलनज्वालोल्कादुःसहान्यक्ष- राणि जल्पन्ती सर्वथा विलुप्तजीवितां मा करोषि । तस्मात्प्रसीदतु मुहूर्तं जीवितं धारयतु प्रियसखी । यावदितस्ततः पुण्येष्याश्रमेषु मुनिजनसमा- कुलेषु भागीरथीतीरेषु निपुणं निरूपयामि कदाचिन्महामोहभीत्या कथ- मामिति० माम् स्वदुहितरम् अनालोक्य अदृष्ट्वा न स्नास्ति न भुङ्क्ते भोजनं करोति, न अपः जलानि पिवति, ( तदेवम् ) मया शान्त्या रहिता वियुक्ता श्रद्धा मुहूर्त्तम् एकमपि क्षणं न जीवति प्राणान् धारयति । मद्दर्शननियतप्राणायास्तस्या मया वियोगे जीवनमशक्यसंभावनमिति भावः ॥ २ ॥ तत्-तस्मात्, ( यतो मद्वियोगे मम स्नेहेन मदीया माता श्रद्धा न जीवति तदुचितं तद्वियुक्ताया ममापि प्राणविसर्जनमिति ) विडम्बनम्-आडम्बरः । चिताम्- दाहोपयिकमग्निस्थानम् । आरचय-कुरुष्व । अचिरम्-शीघ्रम् । हुताशनप्रवेशेन- पावकप्रवेशेन । तस्याः-स्वमातुः श्रद्धायाः । सहचरी-समीपं गता । विषमेति० विषमा अतिदुःसहा, ज्वलनज्वाला वह्निदाहः, तस्याः उल्का तथा दुःसहानि सोढुमशक्यानि नितान्तकठोरतया मर्मव्यथकानि । अक्षराणि-वाक्यानि । जल्पन्ती-अभिदधाना । विलुप्तजीविताम्-मृताम् । त्वदीयानि स्वप्राणविसर्जनत- त्परताद्योकतया मर्मच्छिन्दिदवचनानि श्रुत्वा मदीयं जीवनं गतमिव जायते इति विलुप्तजीवितामित्युक्तेराशयः । प्रसीदतु-अनुग्रहं करोतु । इतस्ततः-यत्रतत्र । मुनि- जनसमाकुलेषु-ऋषिकुलाक्रान्तेषु । भागरथीतीरेषु-गङ्गातटेषु । निपुणं निरूपयामि- जो श्रद्धा बिना मुझे देखे न नहाती है, न खाती है, न पानी ही पीती है, वह मुझसे बिछुड कर क्षणभर भी नही जी सकती है ॥ २ ॥ इसलिये श्रद्धाके विना क्षणभरके लिये भी शान्तिका जीना विडम्बना है । सखि करुणे, मेरी चिता रच दे । मै शीघ्र ही प्राण त्यागकर उसकी सहचरी हो जाऊं । करुणा—( रोकर ) सखि, इस प्रकार अतितीव्र उल्का समान अक्षरों का उच्चारण करके तुम हमारी जान ले रही हो । कृपाकर थोडी देर जीवन धारण करो, जब तक
६६ प्रबोधचन्द्रोदयम् मपि प्रच्छन्ना निवसति । (सहि, एव्वं बिसमज्जलणजालाउल्लकादुःसहाई अक्खराई जप्पन्ती सव्वथा विलुत्तजीविदं मं करेसि । ता प्पसीददु मुहुत्तं जीविदं धारेदु पिअसही । जाव इदो तदो पुण्णेसु अस्समेसु मुनिश्रणसमाउलेसु भाईरहीतीरेसु णिउणं णिरुवेम्हि कञ्चावि महामोहभीदिआ कहमवि पच्छण्णा णिवसदि ) शान्तिः—सखि, किमन्विष्यते । अन्वेषितैव— नीवाराङ्कितसैकतानि सरितां कूलानि वैखानसै- राक्रान्तानि समिच्चपालचमसव्याप्ता गृहा यज्वनाम् । प्रत्येकं च निरूपिताः प्रतिपदं चत्वार एवाश्रमाः श्रद्धायाः क्वचिदप्यहो खलु मया वार्त्तापि नाकर्णिता ॥ ३ ॥ साधु गवेषयामि। प्रच्छन्ना-गुप्ता। तावद्भवती मयि कृपां कृत्वा जीवनं धारयतु यावदहमिह पूतेषु मुन्याश्रमेषु गङ्गापरिसरेषु च श्रद्धां साधु गवेषयामि, सम्भा- व्यते-कदाचिन्मोहदृद्भीता सा क्वचिदत्र प्रच्छाद्यात्मानं स्थिता स्यादिति तात्पर्यम् । किम् अन्विष्यते-वृथान्वेषणम्, नास्ति तदाहेः सम्भावनेति भावः । 'अन्वेषि- तैव' इत्यत्र मयेति शेषः, मया कृतेऽन्वेषणे पुनस्त्वत्कर्तृकमन्वेषणं पिष्टपेषणकल्प- मित्यर्थः । नावारेति० नीवारैः मुन्यन्नैः अङ्कितानि युक्तानि सैकतानि पुलिनानि येषान्ता- दृशानि वैखानसैः आक्रान्तानि अध्युषितानि सरिताम् नदीनाम् कूलानि तटप्रदेशाः, समिधः काष्ठानि, चषालः यूपकटकः, चमसाः यज्ञपात्राणि तैर्व्याप्ताः आकीर्णाः यज्व- नाम् यज्ञकृतामध्वर्युणाम् गृहाः आश्रमाः, प्रतिपदम् अखिलेषु स्थानेषु प्रत्येकम् एकैक- शश्च चत्वार एव चत्वारोऽपि आश्रमाः ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसन्न्यासनामानः निरू- पिताः सूक्ष्मेक्षिकया दृष्टाः, अहो आश्चर्यम्, क्वचिदपि एषु कुत्रापि मया श्रद्धायाः विश्वासापराभिधानाया मानसिकनिष्ठायाः वार्त्ता कथा अपि न आकर्णिता श्रुता । नीवाङ्कितपुलिनेषु सरित्तटेषु मुन्यधिष्ठितस्थानेषु याज्ञिकजनगृहेषु चतुर्ष्वपि चाश्रमेषु इधर उधर पुण्याश्रम तथा मुनिजननिषेवित गङ्गातटमे अच्छा तरह ढूंढता हू । कदाचित् महामोहके भयसे कहीं छिपी हुई हो । शान्ति—सखि, क्या अन्वेषण करोगी, खोजा तो— नीवारयुक्त तट वाले मुनिसेवित नदीकूल, समिध्, चपाल तथा चमससे पूर्ण याज्ञिकोके घर, सर्वत्र खोज की गई, चारो आश्रमो मे अन्वेषण किया, किन्तु श्रद्धा की चर्चा कही नहीं सुनी ॥ ३ ॥