प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 94, कुल 274 में से
संदर्भ में पढ़ें७६ प्रबोधचन्द्रोदयम् महामोहः-( पत्रं वाचयति ) 'स्वस्ति श्रीवाराणस्यां महाराजाधिराजपरमेश्वरमहामोहपादान्पुरुषो- त्तमायतनान्मदमानौ साष्टाङ्गपातं प्रणम्य विज्ञापयतः । यथा भद्रमव्या- हतम् । अन्यच्च देवी शान्तिर्मात्रा श्रद्धया सह विवेकस्य दौत्यमापन्ना विवेकसंगमाय देवीमुपनिषदमहर्निशं प्रबोधयति । अपि च कामसहच- रोऽपि धर्मो वैराग्यादिभिरुपजप्त इव लक्ष्यते । यतः कामाद्विभिद्य कुतश्चि- न्निगूढः प्रचरति । तदेतज्ज्ञात्वा तत्र देवः प्रमाणमिति । पुरुषोत्तमायतनात्-जगन्नाथक्षेत्रात् । साष्टाङ्गपातम्-प्रणामं कृत्वा । विज्ञापयतः- सूचयतः । भद्रमव्याहतम्-कुशलमक्षतम् । शान्तेर्माता श्रद्धा-सा श्रद्धोपेता शान्तिः- विवेकस्य दौत्यमापन्ना-विवेकेन दूतीपदे नियुज्यमाना । दूत्यो हि विप्रतीपनायिकाः स्वामिभिः सङ्गमयितुं चेष्टन्ते, अत्रोपनिषत्प्रतीपनायिका, विवेकस्तत्पतिः, श्रद्धया मात्रोपेता शान्तिदूतीति बोध्यम् । विवेकसंगमाय-विवेकेन सह संगन्तुम् । अह- र्निशम्-रात्रिं दिवम् । प्रबोधयति-शिक्षयति । कामसहचरः-कामसुहृत् । समीप- वर्त्तितयाऽनयोः सुहृद्भावः, समीपवर्त्तिता च पुरुषार्थचतुष्टयमध्ये सहपाठवशात् । उपजप्तः-भेदं प्रापितः । उपजप्तत्वे प्रमाणमाह-यत इति० विभिद्य-पृथग्भूत्वा । निगूढः-प्रच्छन्नः । इदमत्र बोध्यम्-कामो धर्मश्च सहपठितौ पुरुषार्थौ, तौ सुहृदौ यतस्तयोधर्मः कामसाधनतयाऽऽचर्य्यते, यदवधिकामानुद्दिश्य धर्माचरणं क्रियते तावत् पर्यन्तं तयोर्मैत्री स्थिरा । वैराग्यादिप्रकाशेन धर्मेऽकामभावेनाचार्य्यमाणे धर्मः कामस्य पोषको न भवतीति धर्मो वैराग्यादिभिरुपजप्त इति कथितः । अन्योऽप्युपजप्तः स्व- सुहृदो हितेष्वसक्तः पृथङ् निगूढभावेन प्रचरति, तद्वदेवात्रापि कामसुहृद्धर्मो वैराग्यादिभिरुपजप्त इति कामं विहाय पृथग्भूतः फलाभिसन्धिशून्यतयाऽऽचर्य्यमाण इति तद्विषयाज्ञानान्निगूढचारितयोत्प्रेक्षित इति । देवः प्रमाणम्-यथोचितमादेष्टुं भवन्तः प्रभव इत्यर्थः । महामोह-( पत्र पढ़ता है ) स्वस्ति श्री वाराणसीमे महाराजाधिराज परमेश्वर महा- मोहके चरणोंमें पुरुषोत्तमसे आये हुए मद-मान प्रणाम करते हैं । यहाँ सब कुशल है । और देवी शान्ति अपनी माता श्रद्धाके साथ विवेककी दूती बनकर विवेकसे मिलनेके लिये देवी उपनिषद्को अहर्निश समझाती है । और काम सहचर होकर भी धर्म वैराग्य आदिसे फूटमें डाल दिया गया सा प्रतीत होता है । आजकल धर्म कामसे छिपकर घूमा करता है । इन बातोंको जानकर महाराज यथोचित कार्य करें ।