भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 120, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 120

( १२९ ) गत्वा पूर्वम् स्वसैन्यैरभिसरिसमये ख समानैर्विमानै विख्यातो यो विमर्दे स स इति बहुशः सासुराणा सुराणाम् । स श्रीमास्त्यक्तदेहो दयितमपि विना स्नेहवन्तं भवन्त स्वर्गस्थः साम्प्रत कि रमयति पितृभिः स्वैर्नरैन्द्रैर्नरेन्द्रः ॥ ( १७ ) सुमन्त्रः—(सशोकम्) नरपतिनिधनं भवत्प्रवासं भरतविषादमनाथतां कुलस्य । बहुविधमनुभूय दुष्प्रसह्यं गुण इव बहुवपराद्धमायुषा मे ॥ ( १८ ) सीता—रुदन्तमार्यपुत्रं पुनरपि रोदयति तातः । रामः—मैथिलि ! एष व्यवस्थापयाम्यात्मानम् । वत्स ! लक्ष्मण आपस्तावत् । लक्ष्मणः—यदाज्ञापयत्यार्यः । भरतः—आर्य ! न खलु न्याय्यम् । क्रमेण शुश्रूषयिष्ये । अहमेव यास्यामि । (कलशं गृहीत्वा निष्क्रम्य प्रविश्य) इमा आपः । रामः— (आचम्य) मैथिलि ! विशीर्यते खलु लक्ष्मणस्य व्यापारः । सीता—आर्यपुत्र ! नन्वेतेनापि शुश्रूषयितव्यः । रामः—सुष्ठु खल्विह लक्ष्मणः शुश्रूषयतु । तत्रस्थो मां भरतः शुश्रू- षयतु । भरतः—प्रसीदत्वार्यः । इह स्थास्यामि देहेन तत्र स्थास्यामि कर्मणा । नाम्नैव भवतो राज्यं कृतरक्षं भविष्यति ॥ ( १६ ) रामः—वत्स ! कैकेयीमातः ! मा मैवम् । पितुर्नियोगादहमागतो वनं न वत्स दर्पान्न भयान्न विभ्रमात् ।