प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 124, कुल 178 में से
संदर्भ में पढ़ें( 133 ) है। हे श्रेष्ठ पुरुष, मनुष्यों में माता के अपराध को अपराध नहीं माना जाना चाहिए। हे वर देने वाले, दुःखी भरत की ओर न्यायो- चित दृष्टि से देखें। (२१) मूल -आर्यपुत्र ! अतिकरुणं मन्त्रयते भरतः । किमिदानीमार्यपुत्रेण चिन्त्यते । .-मैथिलि ! तं चिन्तयामि नृपतिं सुरलोकयातं येनायमात्मजविशिष्टगुणो न दृष्टः । ईदृग्विधं गुणनिधिम् समवाप्य लोके धिग् भो विधेर्यदि बलं पुरुषोत्तमेषु ॥ (२२) वत्स कैकेयीमातः ! यत्सत्यं परितोषितोऽस्मि भवता निष्कल्मषात्मा भवां स्त्वद्वाक्यस्य वशानुगोऽस्मि भवतः ख्यातैर्गुणैर्निर्जितः । किन्त्वेतन्नृपतेर्वचस्तदनृतं कर्तुम् न युक्तं त्वया किञ्चोत्पाद्य भवद्विधं भवतु ते मिथ्याभिधायी पिता ॥(२३) भरतः-यावद् भविष्यति भवन्नियमावसानं तावद् भवेयमिह ते नृप, पादमूले । रामः-मैवं नृपः स्वसुकृतैरनुयातु सिद्धिं मे शापितो न परिरक्षसि चेत् स्वराज्यम् ॥ (२४) भरतः-हन्त अनुत्तरमभिहितम् । भवतु समयतस्ते राज्यं परि- पालयामि । रामः-वत्स ! कः समयः ? भरतः-मम हस्ते निक्षिप्तं तव राज्यं चतुर्दश वर्षान्ते प्रतिग्रहीतु- मिच्छामि । रामः एवमस्तु । भरतः-आर्ये ! श्रुतम् । आर्ये ! श्रुतम् । तात ! श्रुतम् । सर्वे-वयमपि श्रोतारः ।