प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 148, कुल 178 में से
संदर्भ में पढ़ेंषष्ठ अङ्क (१) मूल (ततः प्रविशतो वृद्धतापसौ) उभौ—परित्रायतां परित्रायतां भवन्तः ! प्रथमः—इयं हि नीलोत्पलदामवर्चसा, मृणालशुक्लोज्ज्वलदंष्ट्रहासिना । निशाचरेन्द्रेण निशार्धचारिणा मृगीव सीता परिभूय नीयते ॥ (१) द्वितीयः—एषा खलु तत्रभवती वैदेही, विचेष्टमानेव भुजङ्गमाङ्गना विधूयमानेव च पुष्पिता लता । प्रसह्य पापेन दशाननेन सा तपोवनात् सिद्धिरिवापनीयते ॥ (२) उभौ—परित्रायतां परित्रायतां भवन्तः । प्रथमः—(ऊर्ध्वमवलोक्य) अये वचनसमकाल एव दशरथस्यानृण्यं कर्तुम् “मयि स्थिते क्व यास्यसी” ति रावणमाहूयान्तरिक्ष- मुत्पतितो जटायुः । द्वितीयः—एष रोषादुद्वृत्तनयनः प्रतिनिवृत्तो रावणः । प्रथमः—एष रावणः । द्वितीयः—एष जटायुः । उभौ—हन्तैतदन्तरिक्षे प्रवृत्तं युद्धम् । प्रथमः—काश्यप ! काश्यप ! पश्य क्रव्यादीश्वरस्य सामर्थ्यम् । पक्षाभ्यां परिभूय वीर्यविषयं द्वन्द्वं प्रतिव्यूहते तुण्डाभ्यां सुनिघृष्टतीक्ष्णमचलः संवेष्टनं चेष्टते ।