प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 164, कुल 178 में से
संदर्भ में पढ़ें( 185 ) (२) मूल (ततः प्रविशति रामः) रामः--भोः ! समुदितबलवीर्यम् रावणं नाशयित्वा जगत्ति गुणसमग्रां प्राप्य सीतां विशुद्धाम् । वचनमपि गुरूणामन्तः पूरयित्वा मुनिजनवनवासं प्राप्तवानस्मि भूयः ॥ (२) तापसीनांमभिभवनार्थमभ्यन्तरं प्रविष्टा चिरायते खलु मैथिली । (विलोक्य) अये ! इयं वैदेही, सरवीति सीतेति च जानकीति यथावयः स्निग्धतरं स्नुषेति । तपस्विदारैर्जनकन्द्रपुत्री सम्भाष्यमाणा समुपैति मन्दम् ॥ (३) (ततः प्रविशति सीता तापसी च) तापसी—हला ! एष ते कुटुम्बिकः । उपसर्पैनम् । न शक्यं त्वामे- काकिनीम् प्रे क्षितुम् । सीता—हम्, अद्यात्यविश्वसनीयमिव मे प्रतिभाति । (उपसृत्य) जय- त्वार्यपुत्रः । रामः—मैथिलि ! अपि जानासि, पूर्वाधिष्ठानमस्माकं जनस्थानमा- सीत् । अप्यत्र ज्ञायन्ते पुत्रकृतका वृक्षाः । सीता—जानामि जानामि । अवलोकितंपत्रका उल्लोकयितव्या इदानी संवृत्ताः । रामः—एवमेतत् । निम्नस्थलोत्पादको हि कालः । मैथिलि ! अप्यु- पलभ्यतेऽस्य सप्तपर्णस्याधस्ताच्छुक्लवाससं भरतं दृष्ट्वा परि- त्रस्तं मृगयूथमासीत् । सीता—आर्यपुत्र ! दृढं खलु स्मरामि । रामः—अयं तु नस्तपसः साक्षिभूतो महाकच्छः ।