प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 171, कुल 178 में से
संदर्भ में पढ़ें192 ) भरत—कृतकृत्य हूँ । आर्य, राज्य के भार को स्वीकार करो । राम—वत्स, क्यो ? कैकेयी—पुत्र, हमारी यह इच्छा तो बहुत दिनो से है । (४) मूल (ततः प्रविशति शत्रुघ्नः) शत्रुघ्नः—विविधैर्व्यसनैः क्लिष्टमक्लिष्टगुणतेजसम् । द्रष्टुं मे त्वरते बुद्धी रावणान्तकरं गुरुम् ॥ (८) (उपगम्य) आर्य ! शत्रुघ्नोऽहमभिवादये । राम.—एह्येहि वत्स ! स्वस्ति, आयुष्मान् भव । शत्रुघ्नः—अनुगृहीतोऽस्मि । आर्ये ! अभिवादये । सीता--वत्स ! चिरजीव । शत्रुघ्नः--अनुगृहीतोऽस्मि । आर्य ! अभिवादये । लक्ष्मणः--स्वस्ति, आयुष्मान् भव । शत्रुघ्नः—अनुगृहीतोऽस्मि । आर्य ! एतौ वसिष्ठवामदेवौ सह प्रकृति- भिरभिषेकं पुरस्कृत्य त्वद्दर्शनमभिलषतः । तीर्थोदकेन मुनिभिः स्वयमाहृतेन नानानदीनदगतेन तव प्रसादात् । इच्छन्ति ते मुनिगणाः प्रथमाभिषिक्तं द्रष्टुं मुखं सलिलसिक्तमिवारविन्दम् ॥ (६) कैकेयी—गच्छ जात ! अभिलषाभिषेकम् । रामः—यदाज्ञापयत्यम्बा । (निष्क्रान्तः) (नेपथ्ये) जयतु भवान् । जयतु स्वामी । जयतु महाराजः । जयतु देवः । जयतु भद्रमुखः । जयत्वार्यः । जयतु रावणान्तकः । कैकेयी—एते पुरोहिताः काञ्चुकिनः पुत्रकस्य मे विजयघोषं वर्धयन्त आशिभिः पूजयन्ति । सुमित्रा—प्रकृतयः परिचायिकाः सज्जनाश्च पुत्रकस्य मे विजय वर्धयन्ति ।