प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 39, कुल 178 में से
संदर्भ में पढ़ेंप्रतिमा नाटकम् प्रथम अंक (१) मूल (नान्द्यन्ते ततः प्रविशति सूत्रधारः ) सूत्रधारः—सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च । यो रावणार्थप्रतिमश्च देव्या विभीषणात्मा भरतोऽनुसर्गम् ॥ (१) (नेपथ्याभिमुखम् अवलोक्य) आर्ये ! इतस्तावत् । (प्रविश्य) नटी—आर्य ! इयमस्मि । सूत्रधारः—आर्ये ! इममेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् । नटी—आय ! तथा । (गायति) सूत्रधारः—अस्मिन् हि काले, चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा । (नेपथ्ये) आर्य ! आर्य ! (आकर्ण्य) सूत्रधारः— भवतु, विज्ञातम् । मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥ (२) (निष्क्रान्तौ) स्थापना । शब्दार्थ—नान्द्यन्ते=मंगलाचरण के अन्त मे । सीताभवः = सीता आनन्ददाता । पातु = रक्षा करें । सुमन्त्रतुष्टः = अच्छे मन्त्र के पक्षपाती