भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 61, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 61

( 60 ) रामः—वने खलु वस्तव्यम् ! सीता—तत् खलु मे प्रासादः । रामः—श्वश्रूश्वशुरशुश्रूषापि च ते निर्वर्तितव्या । सीता—एनामुद्दिश्य देवतानां प्रणामः क्रियते । रामः—लक्ष्मण ! वार्यतामियम् । लक्ष्मणः—आर्य ! नोत्सहे श्लाघनीये काले वारयितुमत्रभवतीम् । कुतः— (अनुचरति शशाङ्कं राहुदोषेऽपि तारा) पतति च वनवृक्षे याति भूमिं लता च । त्यजति न च करेणुः पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्मं भर्तृनाथा हि नार्यः ॥ (२५) (प्रविश्य) चेटी—जयतु भट्टिनी । नेपथ्यपालिन्यार्यरैवा प्रणम्य विज्ञापयति- अवदातिकाया संगीतशालाया आच्छिद्य वल्कला आनीताः । इमेऽपरा अननुभूता वल्कलाः । निर्वर्त्यतां तावत् किल प्रयोजनमिति । रामः—भद्रे, आनय, सन्तुष्टैषा । वयमर्थिन । चेटी—गृह्णातु भर्ता । (तथा कृत्वा निष्क्रान्ता) (रामो गृहीत्वा परिधत्ते ) शब्दार्थ—स्थैर्यम् = धैर्य को । उत्पादथता = उत्पन्न करने वाले । नमयि = उठाया जाये । अवेक्षमाणो = प्रतीक्षा या पालन करने वाले । मुञ्चानि = छोड़ा जाए । मातरि = माता कैकेयी पर । हरन्त्याम् = लेने वाली । दोषेषु बाह्यम् = दोष या अपराध में लिप्त न होने वाले । हनानी = मारा जाए । रुचिरं = अच्छा लगने वाला । पातकेषु = महा पापों में । अविज्ञाय = नहीं जान कर । उपालभसे = डांट रहे है । निवेदितम् प्रकट की है । अप्रभुत्वम् = अधीशता को । मङ्गलार्थे = अच्छा कार्य करने के लिए । अनया = इस अवदातिका के द्वारा । नैवाप्तम् = नहीं प्राप्त किया है । नोपपादितम् = नहीं [कि]या है । व्यवसितम् = सोचा है । श्वश्रू = सास । शुश्रूषा = सेवा । निर्वति- [तव्या] = की जानी चाहिए । वार्यताम् = मना करो । उत्सहे = समर्थ हूँ ।