भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 68, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 68

द्वितीय अंक (१) मूल (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः—भो भोः प्रतिहारव्यापृताः ! स्वेषु स्वेषु स्थानेष्वप्रमत्ता भवन्तु भवन्तः । (प्रविश्य) प्रतीहारी—आर्य ! किमेतत् ? काञ्चुकीयः—एष हि महाराजः सत्यवचनरक्षणपरो राममरण्यं गच्छन्तमुपावर्तयितुमशक्तः पुत्रविरहशोकाग्निना दग्धहृदय उन्मत्त इव बहु प्रलपन् समुद्रगृहके शयानः— मेरुश्चलन्निव युगक्षयसन्निकर्षे शोषं व्रजन्निव महोदधिरप्रमेयः । सूर्यः पतन्निव च मण्डलमात्रलक्ष्यः शोकाद् भृशं शिथिलदेहमतिर्नरेन्द्रः ॥ (१) प्रतीहारी—हा हा एवंगतो महाराजः । काञ्चुकीयः—भवति ! गच्छ । प्रतीहारी—आर्य ! तथा । (निष्क्रान्ता) काञ्चुकीयः—(सर्वतो विलोक्य) अहो नु खलु रामनिर्गमन दिना- दारभ्य शून्यैवेयमयोध्या सलक्ष्यते । कुतः— नागेन्द्रा यवसाभिलाषविमुखाः सास्रेक्षणा वाजिनो हेषाशून्यमुखः सवृद्धवनिताबालाश्च पौरा जनाः । त्यक्ताहारकथाः—सुदीनवदनाः क्रन्दन्त उच्चैर्दिशा रामो याति यया सदारसहजस्तामेव पश्यन्त्यमी ॥ (२) यावदहमपि महाराजस्य समीपवर्ती भविष्यामि । (परिक्रम्या- वलोक्य) अये ! अयं महाराजो महादेव्या सुमित्रया च सुदृ सहमपि पुत्रविरहसमुद्भव शोकं निगृह्यात्मानमेव संस्थापयन्ती-