प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 76, कुल 178 में से
संदर्भ में पढ़ें( 75 ) राजा—कष्टं भोः ! शून्य. प्राप्तो यदि रथो भग्नं मम मनोरथः । नूनं दशरथं नेतुं कालेन प्रेषितो रथः ॥ (११) तेन हि शीघ्रं प्रवेश्यताम् । काञ्चुकीयः—यदाज्ञापयति महाराजः । (निष्क्रान्तः) राजा—धन्या.खलु वने वातास्तटाकंपपरिवर्तिनः । विचरन्तं वने रामं ये स्पृशन्ति यथासुखम् ॥ (१२) (ततः प्रविशति सुमन्त्रः) सुमन्त्रः—(सर्वतो विलोक्य सशोकम्) एते भृत्याः स्वानि कर्माणि हित्वा स्नेहाद् रामे जातबाष्पाकुलाक्षाः । चिन्तादीनाः शोकसन्तप्तदेहा विक्रोशन्तं पार्थिवं गर्हयन्ति ॥ (१३) (उपेत्य) जयतु महाराजः । राजा—भ्रातः सुमन्त्र ! क्व मे ज्येष्ठो रामः— न हि न हि युक्तमभिहितं मया । क्व ते ज्येष्ठो रामः प्रियसुत ! सुतः सा क्व दुहिता विदेहानां भर्तु'निरतिशयभक्तिर्गुरुजने । क्व वा सौमित्रिर्म.म् हतपितृकमासन्नमरणं किमप्याहुः किं ते सकलजनशोकार्णवकरम् ॥ (१४) सुमन्त्रः—महाराज ! मा मैवममङ्गलवचनानि भाषिष्ठाः । अचिरा- देव तान् द्रक्ष्यसि । राजा—सत्यमयुक्तमभिहितं मया । नायं तपस्विनामुचितः प्रश्नः । तत् कथ्यताम् । अपि तपस्विनां तपो वर्धते ? अप्यरण्यानि स्वाधीनानि विचरन्ती वैदेही न परिखिद्यते ? सुमित्रा—सुमन्त्र ! बहुवल्कलालङ्कृतशरीरा बालाप्यबालचरित्रा भर्तुः सहधर्मचारिणी अस्मान् महाराज च किञ्चिन्नालपति ।