भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 96, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 96

( 93 )

धुर्यम् पाषाणानाम् । अहो भावगतिराकृतीनाम् । दैवतोद्- दिष्टानापि मानुषविश्वासतासां प्रतिमानाम् । किन्नु खलु चतुर्देवतोऽय स्तोमः । अथवा यानि तानि भवन्तु । अस्ति तावन्मे मनसि प्रहर्षः । काम दैवतमित्येव युक्त नमयितुं शिरः । विफलस्तु प्रणाम. स्याद मन्त्रार्चितदैवतः ॥ (५) (प्रविश्य) देवकुलिकः—भोः ! नैत्यकावसाने प्राणिधर्ममनुतिष्ठति मयि को नु खल्वयमासा प्रतिमानामल्पान्तराकृतिरिव प्रतिमागृहं प्रविष्टः ? भवतु, प्रविश्य ज्ञास्ये । (प्रविशति) भरतः—नमोऽस्तु । देवकुलिकः- न खलु न खलु प्रणामः कार्यः । भरतः—मा तावद् भो ! वक्तव्य किञ्चिदमासु विशिष्ट प्रतिपाल्यते । किं कृतः प्रतिषेधोऽय नियमप्रभविष्णुता ॥ (६) देवकुलिकः— य खल्वेतैः कारणैः प्रतिषेधयामि भवन्तम् । किन्तु दैवतशकया ब्राह्मणजनस्य प्रणामं परिहरामि । क्षत्रिया ह्यत्र- भवन्तः । भरतः—एवम् । क्षत्रिया ह्यत्रभवन्तः । अथ के नामात्रभवन्तः । देवकुलिकः- इक्ष्वाकवः । भरतः— (सहर्षम्) इक्ष्वाकव इति । एते ते ऽयोध्याभर्तारः । एते ते देवतानामसुरपुरवधे गच्छन्त्योऽभिसरीः— मेते ते शत्रुलोके सपुरजनपदा यान्ति स्वसुकृतैः । एते ते प्राप्नुवन्तः स्वभुजबुलजितां कृत्स्नां वसुमती मेने ते मृत्युना ये चिरमिवसिताश्छन्दं मृगयता ॥ (७) भोः ! यदृच्छया खलु मया महत् फलमासादितम् । अभिधीयता कस्तावदत्रभवान् ?

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक) · पृष्ठ 96, कुल 178 में से · BharatKosha