पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 107, कुल 330 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः । ८७ कार्पण्यगी(l.19)रमृतदीधितिबिम्बमध्या- दुल्केव निष्पतदिति त्वरितं बभाषे ॥ अवमानश्रवणाभावमुदा(l.20)हरति . यद्यस्मात्तं विद्याधरं नम्रमुखं वक्तुकामं दृष्ट्वा स राजा भीत इव विद्याधरस्य मुखादमुष्मादन(l.21)र्होत्कृ- ष्णवाक् चन्द्रमण्डलादुल्केव मा स्म पतदित्यतस्तूर्णं भाषितवान् ॥ ५३. · मान्येन घर्मविव(l.22**21)शेनं तथान्तरिक्षा- देत्यान्वभूयत सुषुप्तदशाप्रवेशः . एषा यथा सकलमङ्गलकोश(l.1)मुद्रा याता न सिद्धगुलिकैव न यामिकत्वम् ॥ मान्येन विद्याधरेण तापाकुलेनाकाशादेत्य(l.2) स्वापस्थानुभूतः यथा मङ्गलमेव कोशस्तस्य मुद्रेयं सिद्धगुलिकैव यामिकत्वं न न प्रापद्(l.3)पि तु प्रापत्, एवं राज्ञा गुलिकायाः प्रकाशनं कृतम् ॥ ५४. एतावतेव नृपतेर्वचनामृतेन संपूर्(l.4)र्णकर्णकुहरस्य नभश्चरस्य . राहोर्मुखादिव विनिर्गतमिन्दुबिम्बं तत्कालमेव ददृशे मुखम(l.5)न्यदेव ॥ इयन्मात्रेणैव राज्ञो वाक्यामृतेन पूरितकर्णस्य विद्याधरस्य मुखमन्य- देव तत्काल(l.6)मेव दृष्टम् अतो राहुमुखान्निर्गतं चन्द्रबिम्बमिव ॥ ५५. आदाय तां क्षितिपतेश्च सुधांशुले(l.7)खा- मम्भोनिधेरिव स खेचरचक्रवर्ती . प्रारम्भचर्चितविषादविषावतीर्णां पीडां विधूय(l.8) परमेश्वरतामवाप ॥ 1 Ms. has पृ. वि. २६ vertically on margin. 2 Ms. विवविवशे°. 3 Ms. ॰मिन्दु°.