पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 106, कुल 330 में से
संदर्भ में पढ़ें८६ पृथ्वीराजविजयमहाकाव्यम् वाक्शक्तिमेव सकलामपि तस्य हृत्वा निस्संशयं गुलिकया निरगा(।८)मि वक्रात् · वीक्ष्याननं नरपतेरनुरुध्यमानः किञ्चिद्विवक्षुरपि यन्न किमुप्यवाच ॥ नूनं सर्वा(।9)मप्युक्तिशक्तिं हृत्वा अस्य मुखाद्गुलिकया निर्गलितम् राज्ञो मुखं दृष्ट्वा सानुरोधस्स यतः किंचिंदपि(l.10) वक्तुकामः किमपि नावदत् ॥ 50. मन्येनुभूय गुलिकाचिरसाहचर्यं याता क्व सेति सहसैव गवेषणाय .(l.11) भाग्यानलप्रशमभस्मकणायमानै- र्दन्तांशुभिः प्रसृतमस्य मुखाद्विधत्तोः ॥ वक्तुकामस्य(l 12) विद्याधरस्य मुखाद्दन्तांशुभिः प्रसृतम् · भावे क्तः · अतस्संभाव्यते गुलिकया सह चिरं स्थिति(l 13)मनुभूय गुलिकाया गवेष- णायान्वेषणार्थं सा गुलिका क्व गतेति . कीदृशैः भाग्यान्येवानलः(l.14) तस्य प्रशमेन भस्मकणैसद्दशैः ॥ 51. यो मानमात्रकधनस्स किमन्यतोपि स्वप्नेपि नाम शृणु(l.15)यादवमानवाक्यम् · अभ्यासखण्डनभयादिव मानिताया- स्तस्यावमानवचनश्रवणं ह्यपध्यम् ॥(l.16) यो मानैकधनस्सोन्मस्मादपि स्वप्नेपि अवमानवचनं किं शृणुयात् अपि शब्दात्स्वस्यावमानं किं शृणुयाद्दि(l.17)त्यर्थः तस्य मानिनो मानिभावस्य यो- भ्यासस्तत्खण्डनभीत्येवावमानवचश्श्रवणं ध्रुवमपध्यमयु(l.18)क्तम् ॥ 52. पृथ्वीपतिर्यद्वचनप्रमुखं विवक्तुं तं वीक्ष्य भीत इव मा स्म मुखादमुष्मात् · 1 Ms. किंचेद°. 2 Ms. °प्रसभ°. 3 Ms. °न्ताशु°. 4 Ms. °कणास°. 5 Ms. °स्यौव°. 6 Ms. °मुष्या°.