पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 109, कुल 330 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः . ८६ क्रोधादीनामग्रणीः काम इत्यर्थः . तस्मिन्कामेभिलाषे जिते(l 21) सति ते तव पुरतस्तत्क्रोधादिपञ्चकं वराकमकिञ्चित्करम् . अगस्त्यस्य समुद्रं पिबतो नक्रादयः(l.22) जलजन्तवः क्व गणनीयाः ॥ ५९. तत्किं ब्रवीम्युपचिकीर्षति मानसं मे त्वा प्रत्यपीति धिगनीतिविदु(l.23*)क्क्रिरेषा . प्राप्योपमन्युमुनिना किल दुग्धसिन्धुं क्षीराभिषेककलशेन मुनिः प्रसाद्यः ॥ त्वं यतो(l.1) जितलोभस्तत्किं ब्रवीमि जल्पितुमहमशक्त इत्यर्थः मम चित्तं तवोपकर्तुमिच्छतीत्येषानी(l.2)तिज्ञानामुक्तिः . शिवात्क्षीरसमुद्रं प्रा- प्योपमन्युना मुनिना कत्र्रा शिवः क्षीरकलशेन किं प्रसाद्यः ॥(l.3) यद्वा यत्त्वां प्रत्युपचिकीर्षति मे चित्तमित्येषानीतिवदुक्तिः वक्तुं नोचितमित्यर्थः प्रत्युपकारं मह्यं(l.1) न करोतीत्याशङ्कायामाह उपमन्युमुनिना क्षीराब्धिदोपि शिवः क्षीरकलशेन किल प्रपादनीयः(l.2). ६०. चिन्तामणेः कनकमध्यनिवेशनं य- त्कल्पद्रुमस्य यदि वा जलसेकचिन्ता . यत्प्रवृत्तिरत वा सु(l.4)रभेस्तृणानां या स्यादुदात्तहृदयानुकर्तुमिच्छा ॥ यदुदारचेतसामुपकर्तुमिच्छा त(l.5)श्चिन्तारत्नस्य सुवर्णमध्ये स्थापनं तथा तत्कल्पवृक्षस्य जलसेकः तथा कामधेनोस्तृणानां प्रवर्त्तने यत्नार(l.6)- म्भः . वाक्यार्थरूपकम् ॥ ६१. सद्भ्रिस्तदप्युपकृतादपि कश्चिदंश- स्स्वीकार्य एव लघुताशम(l.7)नाय तस्य . 1 Ms. °वीम्युं°. 2 Is it शिवः ? or better, मूढः ? 3 Ms. कत्रा. 4 Ms. यद्वा to °नीयः lc. at the top of page in two lines. 5 Ms. °मुप°. 6 Ms. - प्रवर्त्तने lc. on margin. १२