पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 115, कुल 330 में से
संदर्भ में पढ़ें६६ पृथ्वीराजविजयमहाकाव्यम्. तवाश्वानां हितेयं लवणसिन्धुरवतीर्णा . नखक्षतेन च वनिताया घर्मज- लोद्भेदः ॥(l 10) 80. यन्नाम किञ्चन पतिष्यति वस्तुजातं क्षारत्वमेष्यति तदत्र समस्तमेव • तेनाचरिष्यति न केव(l. 11)लमेव कीर्ते- र्यावत्प्रतापदहनस्य तवानुवृत्तिम् ॥ यत्किञ्चन स्वादुक्टुकादि वस्तुजातमिह(l 12) लवणसमुद्रे पतिष्यति तत्सर्वं¹ कर्तृ क्षारत्वं लवणत्वमेति यत्तेन हेतुना न केवलं त्वत्कीर्तेरेवाँ³(l. 13)यं लवणाम्भा अनुवृत्तिं करोति. त्वत्कीर्तिं शृण्वतामन्ये वृत्तान्ताः क्षारा इत्यर्थः यावत्प्रतापाग्नेरप्ययं(l 14) लवणा・・・・・・・・नुवृत्तिं करोति दाह्・・・・ ・・・・・・कीर्तेरतिमाधुर्यादन्येषां वृत्तान्ताः⁴ क्षारा इवेत्यर्थः ॥ (l. 15) 81. इन्दोः कुलस्य यशसां वसतिः कुरूणां क्षेत्रं पवित्रयति योजन[पञ्चकं तत्] • लोकान्तरे फलति(l. 16) तत्फलवाननेन लोकद्वयेपि भविता सवितुस्तु वंशः ॥ इन्दोः कुलस्य・・・・・・・・नां कुरूणां [तत्सं](l. 17)न्धिनां यशसां वसतिः स्थानं यत्क्षेत्रं कर्तृ योजनपंचकपरिमाणं लोकं पवित्रयति तल्लोका- न्तरफलं द[दाति] (l. 18) . तुः पक्षान्तरे . अनेनै परिमाणेनेत्यर्थः लवण- समुद्रेण तु सूर्यस्य कुलं सूर्यवंश्या राजानो लोकद्व(l. 19)ये फलवन्तो भव- न्ति. अयमर्थः कुरुक्षेत्रमृताः कुरवस्स्वर्गमात्रं लब्धवन्तः सूर्यवंश्यानां तु लव(l. 20)णाम्भा इह परत्र च फलप्रदः ॥ 82. तदेव लोकद्वयफलदानं दर्शयति ॥ 1 Ms. °स्त्वं°. 2 Ms. °वेय°. 3 Ms. त्वात्की°. 4 Ms. °न्ताक्षा°. 5 Ms. °त्सित्यां.. 6 Ms. °नाष°. 7 Ms. °सुर्य°.