पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 126, कुल 330 में से
संदर्भ में पढ़ेंविकारस्य क्षीरसमुद्रः निर्विकारमित्यर्थः अन्याप्तेर्गगनं व्यापकमित्यर्थः य- (l.5)स्य यशः कैर्लङ्घ्यते ॥ आरोप्यमाणानां मानसादीनामलंघ्यत्वात् कैर्लङ्घ्यते इत्युक्तिसंगतिः ॥ (l.6) वैधर्म्येण निरङ्गं मालारूपकम् ॥ मलादीन्प्रति मा- नसादीनां प्रैतिकूलत्वाद्वैधर्म्यम् ॥(l.7) 26. अयशोमेघशरदा दुरितध्वान्तराकया • यस्य श्रिया प्रमादाहिहेमन्तनिशया जितम् ॥ यस्य श्रि(l.8)या जितमिति भावे क्तः . अयश एव मेघस्तस्य शरदा तथा पापान्धकारपौर्णमास्या तथा प्रमाद(l.9)सर्पस्य हेमन्तरात्र्या . शीत- काले सर्पाणां बिलप्रवेशेनादर्शनाद्धेमन्तनिशारूपकम् ॥(l.10) परम्परितं तदेव मेघादीन्प्रति शरदादीनां प्रातिकूल्यात् ॥ 27. समुद्राः स्थिरलावण्याः(l.11) परकर्णाभिदोर्जुनाः • यशसां राशयो यस्य दिवि बद्धपदश्रवाः ॥ स्थिरं लावण्यं लालित्यं च(l.12) येषां सम्यगुच्चै रानन्तीति च परेषां शत्रूणां कर्णं श्रवणं परं शत्रुं राधेयं च भिन्दन्ति अर्जुनाः(l.13) श्वेताः पाण्डवविशेषाश्च दिवि व्योम्नि च कृतस्थितयोर्ध्रुवा दृढस्ताराविशेषाश्च • अर्जुनाः श्रंवा इ(l.14)ति बहुवचनं विषयाणां प्रत्येकमारोपात् ॥ आविष्ट- लिङ्गं रूपकम् ॥ 28. पुण्डरीकं विरि(l.15)ञ्चस्य श्वेतद्वीपं [मुर]द्विषः • चन्द्रापी[डस्य कैलासं य]श्शुद्धमवह्नन्मनः ॥ ब्रह्मादीनां पद्मादि य(l.16)श्चित्तमधारयत् तत्र तेषां नित्यनिवासात् ॥ परिणामः ॥ 29. • . 1 Ms. निरंङ्गं. 2 Ms. मतिं. 3 Ms. °धम्यम्. 4 Ms. प्रसा°. 5 Ms. वन्ध°. . 6 Ms. °ध्रुवा. 7 Ms, °नाश्रं. 8 Ms, °कवि°.,