भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 127, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 127

१०८ पृथ्वीराजविजयमहाकाव्यम् तेजोबलाद्द्[ादशभिः सूर्य्यव]न्महदा(l.17)र्थिभिः • भूपैरभ्यर्थ्यमानत्वे स्वसारं यः कलावतीम् ॥ ३०. चन्द्रमूर्त्तिभ्रमकरीं मुखलक्ष्म्येव संज्ञया .(l.18) कान्यकुब्जमहेशाय सरस्वानिव दत्तवान् ॥ तेजस्वित्वात्सूर्यसमैर्द्वादशभिर्भूपालैरभ्यर्थ्य(l.19)मानत्वेपि कलावतीं कलावतीनामानं चतुष्षष्टिकलासहितां च स्वसारं यः कान्यकुब्जेन्द्रा(l.20)य दत्तवान् मुखकान्त्या कलावतीति सञ्ज्ञया च चन्द्रभ्रान्तिकरीम् ॥ भ्रान्ति- मान् ॥ क(l.21)लावतीति वचनेन भ्रान्तिजननात् ॥ ३१. जितैः प्रदत्तसर्वस्वस्स्वस्मै द्वादशभिर्नृपैः । यमो(l.22*) धनपतिर्वायं संदेहमिति यो ददौ ॥ युद्धे जितै राजभिर्हेतुभिः स्वस्मै प्रदत्तं सर्वस्वं येन स यो राजा(l.1) किं यमः किं वा वैश्रवण इति संदेहं दत्तवान् ॥ राज्ञां पीडनाद्यमः अति- दानाद्धनदः ॥ शुद्धस्स(l.2)न्देहः ॥ सन्देहे एव पर्यवसानात् ॥ ३२. नन्दनश्चन्दनस्तस्य यस्य नामन्युदीरिते । जनस्सफ(l.3)ल इत्युक्तिशेषाद्दृष्टभ्रमं जहौ ॥ चन्दन इति यस्य नामन्युक्ते सति तरुसन्देहं प्राप्नुवँल्लोकः(l.4) तत- स्सफल इत्युक्तिशेषाद्दृष्टभ्रममत्यजत्, चन्दनवृक्षस्य फलानामनुत्पत्तेः ॥ निश्चया(l.5)न्तः ॥ प्रथमं संशये सति निश्चये संपर्यवसानात् ॥ ३३. फलदश्चन्दनो दृष्टो भोगिनो यमु(l.6)पासते । सत्कलास्ते च तेषां च विषदं वदनं सदा ॥ चन्दन इत्युक्ते संशयः फलद् इत्युक्ते निश्च(l.7)यः चन्दनस्य फलदत्वा- भावात् भोगिनः सुखिनश्च यं सेवन्ते इति सन्देहः ते च भोगिनः सत्कलाः 1 Ms. रु०; वा नृपैं ? 2 Ms. °ठिक°. 3 Ms. 'र्वा' written above 'श्रा°. [L