पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 132, कुल 330 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः . ११३ भक्त्यतिशयात्पूजार्थं बाण(l.12)लिङ्गानि गृह्वद्भिर्यत्सैन्यैर्नर्मदा अन- र्मदेव निर्मिता . नर्मदायास्तदा बाणलिङ्गाभावात् ॥(l.13) द्रव्य[स्य] ॥ [अनर्मदे]ति द्रव्यस्याभावोत्प्रेक्षा[याम्] ॥ 50. त्यक्तं तपस्विना [स्वच्छं] यशोंशुक(l.14)मितीव यः . गुर्जरं मूलराजाख्यं कन्थादुर्गमवीविशत् ॥ तपस्विना वराकेण तपोधने(l.15)न च स्वच्छं यशोंशुकमनेन त्यक्तमितीव मूलराजनामानं गुर्जरं कन्थाख्यं दुर्गे चीरं च(l.16) स प्रावेशयत् . तपस्वी चानुकंप्यार्थ इति कोशः . कन्था च दुर्गे परुषत्वात् ॥ श्लेषोत्थां ॥(l.17) 51. सूर्यवंशप्रसूतस्य चन्द्रमण्डलनिर्गता . तस्य रेवामयी वाहैः कीर्तिर्मलिनिताभवत् ॥(l.18) सूर्यवंशस्य तस्य वाजिभिश्चन्द्रमण्डलानिर्गता रेवामयी कीर्त्तिर्मलिनी- कृता ॥(l.19) [साप]ह्नुवा ॥ रेवामयीति मयटः प्रयोगात् ॥ 52. व्यधादाशापुरीदेव्या भृगुकच्छे स(l.20**23) धाम तत् . यद्रेवास्पृष्टसोपानं चन्द्रश्चुम्बति मूर्धनि ॥ आशापुर्याख्याया देव्याः प्रासादमव(l.1)टो(?)करोत् . यद्रेवया स्पृष्ट- सोपानं चन्द्रश्शिरसि चुम्बति . रेवायाश्चन्द्रप्रभवत्वाच्चन्द्रेण चुम्बनो(l.2)- क्तिः ॥ प्रतीयमानोत्प्रेक्षा ॥ अत्र वाक्यार्थप्रतीतिसमय एव पदार्थसमन्वय- प(l.3)र्यालोचनया चुम्बनस्य तात्विकत्वाभावावगमादार्थस्संभावनात्मक इवार्थ इति प्रतीय(l.4)मानोत्प्रेक्षा ॥ 53. तस्य दुर्लभराजोभूदनुजो माधवानुगः . नारीणां सततं येन हृदये(l.5)मदनायितम् ॥ 1 Ms. °धने च. 2 Ms. °षोत्थां. 3 Ms. चन्द°. 4 Ms has पृ. ३३ on margin. 5 Ms. °स्पष्ट°. 6 Sic. Is it °मसावकरोत् ? or °द स नृपोकरोत् ? १५